________________
५५४
सिद्धहेमलघुवृत्तौ । द्वितीयाध्यायस्यः ईडौ वा ॥१०९॥ ईकारे ङौ च परेऽनोऽस्य लुग्वा स्यात् । साम्नी, सामनी । राज्ञि, राजनि ॥ षादिहन्घृतराज्ञोऽणि ॥ ११० ॥ षादेरनो हनो घृतराज्ञश्चातोऽणि प्रत्यये लुक् स्यात् । औक्ष्णः, ताक्ष्णः, श्रौणघ्नः, धार्तराज्ञः ॥ न वमन्तसंयोगात् ॥ १११ ॥ वान्तान्मान्ताच्च संयोगात्परस्यानोऽस्य लुग्न स्यात् । पर्वणा, कर्मणी ॥ हनो हो घ्नः ॥ ११२ ॥ हन्ते) घ्नः स्यात् । भ्रूणघ्नी, घ्नन्ति । ह इति किम् ? वृत्रहणौ । लुगस्यादेत्यपदे ॥ ११३ ॥ अपदादावकारे एकारे च परेऽस्य लुक् स्यात् । सः, पचन्ति, पचे। अपद इति किम् ? दण्डानम् ॥ डित्यन्त्यस्वरादेः ॥११४॥ स्वराणां पिबन्ति तान् , विच, आकारलोपः । हाशब्दं ओहाङ्कगतो-जिहीते गीतकाले कर्त्तव्यतयाऽऽप्नोतीति विच तस्मै । पाणिनीयेऽपि हाहाशब्दस्य व्युत्पत्तिपक्षे, अव्युत्पत्तिपक्षे तु धातुसम्बन्धिन एवाऽऽकारस्य लोपकथनादव्युत्पन्नस्य च धातुनिष्पन्नत्वाभावाच्चतुर्थंकवचने हाहै इति रूपमेवमन्यत्राप्यघुट्स्वरे नाऽऽलोपस्तन्मते ।। अनः षष्ठी, अस्य षष्ठी ॥ ङीस्याद्यघुटस्वरे लुगित्यनुवर्तन्ते । राजन् शसित्यत्राघुटस्वरपरत्वादनेनालोपः । ' तवर्गस्ये'ति नकारस्य बकारः, न च 'स्वरस्य परे प्राग्विधाविति सूत्रे प्राचो विधिः प्राविधिरिति पञ्चमीसमासस्यापीष्टतया स्वरादेशात्परस्य विधौ बत्वे कर्तव्ये स्वरादेशस्य लोपस्य स्थानिवद्भावात्कथं स इति वाच्यम्। 'न सन्धिङीयक्तिद्विदीर्घास द्विधावस्क्लुकी'ति सूत्रेणासन्धिविधौ स्थानिवद्भावप्रतिषेधाद्राज्ञः इति रूपम् ॥ ईश्च डिश्च तस्मिन् वा ॥ अनोऽस्य लुगित्यनुवर्तेते । ङिसाहचर्यादीकारोऽपि विभक्तिरूप एव ग्राह्यः । ष आदिर्यस्य षादिः, षादिश्च हन् च धृतराजन् च तस्य, अणि ।। लुगिति वर्तते । उक्ष्णः तक्ष्णोऽपत्ये अणि, अनेन षादित्वादनोऽस्य लुक् । भ्रूणं हतवान् , 'ब्रह्मभ्रूणे ति किप्, भ्रूणघ्नोऽपत्यं, 'ङसोऽपत्येऽण् , अनेनालोपे · हनो हो घ्न' इति नः । धृता राजानो येन, धृतराज्ञोऽपत्य