SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ प्रथमपादः ] अवचूरिपरिष्कारसहितायाम् । १५३ : । " क्वस् उष् स्यात् । विदुष्यः, विदुषा, विदुष्मान् । अणिक्यघुटीत्येव ? विद्वयति, विद्वस्यत्ति, विद्वांसः ॥ श्वन्युवन्मघोनो ङीस्याद्यघुट्स्वरे व उः ।। १०६ ।। ड्यां स्याद्यघुट्स्वरे च श्वनादीनां व उः स्यात् । शुनी, शुनः । अतियूनी, यूनः । मघोनी, मघोनः डीस्याद्यघुट्स्वर इति किम् ? शौवनम्, यौवनम् माघवनम् ॥ लुगातोsनापः ॥ १०७ ।। आब्बर्जस्यातो ङीस्याद्यघुट्स्वरे लुक् स्यात् । कीलालपः हाहे देहि । अनाप इति किम् ? शालाः ॥ अनोऽस्य ।। १०८ ।। ङीस्याद्यघुट्स्वरेऽनोऽस्य लुक् स्यात् । राज्ञी राज्ञः ॥ माचष्टे दध्ययति ।। क्वस्, उष्, मतौ च ॥ अनुवृत्तिः पूर्ववत् । विदक् ज्ञाने, वेतीति विद्वान् 'वेत्तेः वसुः' विदुषि साधुः, 'तत्र साधौ यः' प्रत्ययः, वसो उष् । विद्वांसो विद्यन्ते यत्रासौ विदुष्मान् । विद्वांसमाचष्टे णिच् विद्वयति, विद्वांसमिच्छति क्यन् विद्वस्यति ॥ इदूसहितस्यापि कसोरुषादेशः, 'आगमा यद्गुणीभूतास्तग्रहणेन गृह्यन्त इति न्यायात् । इटो लोपार्थं सेट : कसोरुषादेशार्थं सूत्रान्तराकरणेनायं न्यायो ज्ञाप्यते । पेचुषीत्यादौ हि 'घसेकस्वरातः कसोरित्यनेन कसोरिट् भवति । तथा च पेचिवस् शब्दास्त्रीत्वे ङीकृते स्वरादिप्रत्ययपरत्वेनानेन सूत्रेण सेटः कसोरुषादेशः । एतन्यायाभावे हीटो दृश्यमानता स्यादित्ति || श्रा च युवा च मघवा च तस्य, न घुट् अघुट्, अघुट् चासौ स्वर, स्यादेरधुट्स्वरः, ङीश्च स्याद्यघुट्स्वरश्च तस्मिन् वः प्रथमा उः प्रथमा ॥ श्वन् ङीः, अनेन वस्य उः शुनी, युवानमतिक्रान्ता 'स्त्रियां नृतोऽस्वस्रादेर्डीरि' त्यतियूनी, अनेन वस्य उ:, दीर्घश्च । मघोनः भार्या मघोनी, 'धवाद्योगादपालकान्तादिति ङीः, रि उः गुणः । शुनः इदं 'तस्येदं' अण् ' य्वः पदान्तात्प्रागै दौदि 'ति शकारवकारयोर्मध्ये औकारागमः । युनो भावो यौवनम् । मघोन इदम् । लुक्, आतः षष्ठी, न आवनाप् तस्य ॥ ङीस्याद्यघुट्स्वर इत्यनुवर्तते । कीलालं 1 , 1 २०
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy