________________
१५२
सिद्धहेमलघुवृत्तौ [ द्वितीयाध्यायस्य उदच इति किम् ? नि मा भूत् , उदञ्चा, उदश्च । अच्च प्राग्दीघंश्च ॥ १०४ ॥ अणिक्यघुटि यस्वरादौ प्रत्ययेऽच् चः स्यात् , प्राक्स्वरस्य दीर्घः ॥ प्राच्यः, दधीचा । अणिक्यघुटीत्येव ? दध्ययति, दध्यच्यति, दध्यञ्चः । अचिति किम् ? नि मा भूत् , साध्वञ्चा।। कसुष्मतौ च ॥ १०५ ॥ अणिक्य घुटि यस्वरे मतौ च प्रत्यये
प्रकल्प्य तत्कार्य विधेयमिति तदर्थः । तथा च स्वरमात्रस्यापि णेरेतन्यायात्स्वरादित्वं भवतीति पदादेशे प्राप्ते तत्प्रतिषेधाय णिवर्ज. नम् ॥ उदचः षष्ठी, उदीच प्रथमा । यस्वरे, अणिक्यघुटीति वर्तते। उदश्चतीति विप् , अबू गतौ, अञ्चोऽनर्चायां नलोपः, उदीचि भवः उदीच्यः, 'झुप्रागपागुदप्रतीचो य' इति यः प्रत्ययः । उदीची अञ्च इति ङीः । उदञ्चेौँ — त्रन्त्यस्वरादे ' रित्यञ्चो लुक्युदयतीति भवत्यतो णिवर्जनम् , न च उदीचादेशेऽपि लुक्युदयतीति रूपसिद्धौ णिवर्जनमनर्थकमिति वाच्यं 'सकृद्गते स्पर्द्ध यदाधितं तद्वाधितमेवेति न्यायज्ञापनार्थत्वात् , सत्यस्मिन्न्याये लुकं बाधित्वा विशेषविहितत्वादुदचादेशे पश्चादुक्तन्यायेन लुगप्राप्त्या उदीचयतीत्येव स्यादतो णिवर्जनं कृतम् । पाणिनीये उदश्चमाचष्टे उदीचयतीत्येव रूपमुदयतीति तु इटकिटकटी गतावित्यत्र प्रश्लिष्टस्य इधातोः रूपमिति ॥ उदच इति किमिति, उदश्च इत्यनुक्त्वा • लुप्तनकारस्याश्चतेर्निर्देशः किमर्थ इति प्रश्नार्थः । नकारस्य सद्भावे मा भूत् , पूजायां हि नलोपाभावान्नकारस्य सद्भावोऽघुट्यपीति तत्रादेशप्रतिषेधः ।। अच् प्रथमा, च् प्रथमा, प्राक्, दीर्घः, च ॥ पूर्ववदनुवर्तनम् । प्राचि भवः प्राच्यः . अञ्चोऽनर्चायामने नाचः च्, पूर्वस्य च दीर्घः, स च स्वरस्य, 'स्वरस्य इस्वदीर्घप्लुता' इति न्यायादन्यथा दृषदमञ्चन्तीति किपि द्वितीयाबहुवचने दृषञ्चः इति भवति, अत्रापि दकारस्य प्रास्थितस्य प्रत्यासन्नो लुदीर्घः प्राप्नुयात् । दध्यञ्चतीति विप् तेन । दध्यञ्च.