SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ प्रथमपादः ] अवचूरिपरिष्कारसहितायाम् । १५१ स्वरादौ च प्रत्यये पादन्तस्य पद् स्यात् । वैयाघ्रपद्यः, द्विपदः पश्य । पादयतेः क्विपि ? पाद् । पदी कुले । यस्वर इति किम् ? द्विपाट्याम् । अणिक्यघुटीति किम् ? पादयति, व्याघ्रपाद्यति, द्विपादौ ॥ उदच उदीच ॥ १०३ ॥ अणिक्यधुटि यस्वरे उदच उदीच् स्यात् । उदीच्यः, उदीची । अणिक्यघुटीत्येव ? उदयति, उदच्यति, उदञ्चः। 'अनेकवर्णः सर्वस्ये 'ति परिभाषया पादन्तस्य नाम्नः सर्वस्य पद्भावः प्राप्नोति, तथापि निर्दिश्यमानस्यैवादेशाः स्युरिति न्यायेन पाद एव सूत्रे निर्देशेन श्रुतत्वात्पादन्तनाम्नश्चानुमितत्वात् श्रुतानुमितयोरिति न्यायेन च पाद एव पद्भावो भवति । पादयतेः क्विपि सौ पादिति रूपं ततः क्लीवे औप्रत्यये परेऽनेन पदादेशे पदी, व्यपदेशिवद्भावेन पादन्तत्वम् । पादयतीत्यत्र पाच्छब्दाण्णौ, 'नैकम्वरस्येति लोपाभावे णिपरत्वादनेन पदादेशाभावात्पादयति । नायं पादशब्दस्य प्रयोगः । णिच्यल्लोपस्य स्थानित्वेन पाच्छब्दाभावात् । क्येति क्यन्क्यङोः सामान्येन ग्रहणम् । व्याघ्रपादमिच्छति व्याघ्रपादिवाचरति वा णिक्यघुटां प्रत्ययत्वात्तत्पर्युदासेन प्रत्ययस्य प्राप्तौ 'सप्तम्या आदिरि'ति यादौ स्वरादौ प्रत्यय इति लभ्यते, तथा च सति णिवर्जनं व्यर्थ हेरेकस्वरत्वेन स्वरादिस्वाभावात् , तथा च तद् 'आद्यन्तवदेकस्मिन्नि' ति न्यायं गमयति, सत्यन्यस्मिन्यस्मात्पूर्व नास्ति परमस्ति स आदिरित्युच्यते, सत्यन्यस्मिन्यस्मात्परं नास्ति पूर्वमस्ति सोऽन्त इत्युच्यते, सत्यन्यस्मिन्नाद्यन्तवद्भावात् , एतस्मात्कारणादेकस्मिन्नाद्यन्तापदिष्टानि का. र्याणि न सिद्धयन्तीतीष्यन्ते चैवमर्थमयं न्यायः । एकशब्दोऽसहायवचनः, एकस्मिन्नित्युपमेये सप्तमीनिर्देशादाद्यन्तवदित्युपमानात्सतम्यन्ताद्वतिर्विज्ञायते । एवञ्च यत्रैक एव वर्णो नाम वास्ति, कार्यन्तु तदादिकस्य तदन्तस्य वोक्तं तत्र तदेवैकमादित्वेनान्तत्वेन च
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy