SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ सिद्धहेमलघुवृत्तौ [ द्वितीयाध्यायस्य नोम्र्यादिभ्यः ॥ ९९ ॥ ऊम्र्म्यादिभ्यो मतोर्मो वो न स्यात् । ऊर्मिमान्, दल्मिमा नित्यादि ॥ मासनिशासनस्य शसादौ लुग्वा ॥१००॥ शसादौ स्यादावेषां लुग्वा स्यात् । मासः मासान्, निशः निशा:, आसन आसने ॥ दन्तपादनासिकाहृदयासृग्यूषोदकदोर्यकृच्छकृतो दत्पन्नस्हृदसन्यूषन्नुदन्दोषन्यकञ्छकन्वा ॥१०१॥ शसादौ स्यादौ दन्तादीनां यथासङ्ख्यं ददित्यादयो वा स्युः । दतः, दन्तान् । पदः पादान् । नसा, नासिकया । हृदि, हृदये । अस्ना, असृजा । यूष्णा, यूषेण । उना, उदकेन । दोष्णा, दोषा । यक्ना, यकृता । शक्ना, शकृता ॥ यस्वरे पादः पदणिक्यघुटि ॥ १०२ ॥ णिक्यघुट्वर्जे यादौ १५० 1 मोपान्त्यत्वाद्वत्वे प्राप्ते निषेधः । बहुवचनमाकृतिगणार्थं तेन यस्य सति निमित्ते मतोर्वत्वं न दृश्यते स ऊर्म्यादिषु द्रष्टव्यः । स्यादिविधावसदधिकारोऽत्र निवृत्तः ॥ मासश्च निशा चासनश्च तस्य, शस् आदिर्यस्य तस्मिन्, लुगू, वा ॥ षष्ठयान्त्यस्येति मासशब्दस्य शस्यकारलोपः । एवमग्रे । शसादिर्न स्यादिभिन्नो भवत्यतः स्यादावित्युक्तम् । तद्धितशसः सम्भवेऽप्यादिपदं व्यर्थं स्यात्, मण्डूकप्लुत्या वा स्यादिरनुवर्त्तनीयः, आदिशब्दस्य व्यवस्थावाचित्वाद्वा स्यादिरेव लभ्यते ॥ दन्ताश्च पादौ च नासिका च हृदयश्चासृक्च यूषश्च उदकश्च दोश्च यकृच्च शकृच्च तस्य, दच्च पञ्च नश्च हृद्चासन् च, यूषन्च उदन्च दोषन्च यकन्च छकन्च, वा ॥ शसादावित्यनुवर्त्तते ॥ यश्च स्वरश्च तस्मिन्पादः षष्ठी, पद् प्रथमा, णिश्व क्यश्च घुट् च, न णिक्यघुट् अणिक्यघुट् तस्मिन् || व्याघ्रस्येव पादावस्येति व्याघ्रपाद् 'पात्पादस्याऽहस्त्यादे' स्तस्यापत्यं वैयाघ्रपद्यः, 'गर्गादेर्यम्' अनेन पादः पद् । द्वौ पादौ येषान्ते द्विपादः ' सुसङ्ख्यात्’ पादस्य पादादेशस्ताननेन पद् । पादन्तस्य नाम्नो पदादेशविधानेन
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy