________________
प्रथमपादः ] अवरिपरिष्कारसहितायाम् ।
१४९ ॥ ९४ ।। मावौँ प्रत्येकमन्तोपान्त्यौ यस्य तस्मात्पञ्चमवर्जवर्गान्ताच्च नाम्नः परस्य मतोर्मो वः स्यात् । किंवान् , शमीवान् , वृक्षवान् , मालावान् , अहर्वान् , भास्वान् , मरुत्वान् । नाम्नि ।।१५।। संज्ञायां मतोमों वः स्यात् । अहीवती मुनीवती नद्यौ ॥ चर्मण्वत्यष्टीवचक्रीवत्कक्षीवद्र्मण्वत् ।। ९६ ॥ एते मत्वन्ताः संज्ञायां निपात्यन्ते। चर्मण्वती नाम नदी, अष्ठीवान् जानुः, चक्रीवान् खरः, कक्षीवान पिः, रुमण्वान्गिरिः ॥ उदन्वानब्धौ च ॥९७ ॥ अब्धौ जलाधारे नाम्नि च मतावुदन्वान्नित्पात्यते । उदन्वान्घटः, उदन्वान्समुद्रः, ऋषिराश्रमश्च । राजन्वान्सुराज्ञि ॥९८ ॥ सुराजकेऽथें राजन्वान्मतौ निपात्यते । राजन्वान्देशः, राजन्वत्यः प्रजाः ॥
मवर्गान्तस्योदाहरणम् । नाम्नि सप्तमी । मतोर्मो व इति सम्बध्यते । नाम द्विधा, रामकृष्णादिनाम लौकिकमस्यैव संज्ञेति प्रसिद्धिः, अधा. तुविभक्तीति सूत्रविहितं नाम शास्त्रीयमत्र शास्त्रीयस्यैव नाम्नो ग्रहणे प्रसक्ते नामाधिकारेणैव तदर्थस्य लाभादिदं नामातिरिच्यमानं लौकिकं नाम ज्ञापयति, अत एव संज्ञायामित्युक्तम् । अहीनामदूरभवा, अहिभिर्निर्वृत्ता, अहयो यत्र सन्ति नद्याम् । मतुरिति चातुरर्थिको मतुः, 'अनजिरादी'ति दीर्घत्वम् ॥ चर्मण्वती चाष्ठीवच्च चक्रीवच्च कक्षीवच्च रुमण्वच्च । नाम्नीति वर्तते । संज्ञायामेते शब्दा एवंरूपा एवेत्यर्थः ॥ चर्मन्शब्दस्य नलोपाभावो णत्वञ्च निपात्यते, अस्थिशब्दस्याष्ठीभावः, चक्रशब्दस्य चक्रीभावः, चक्रीवान्नाम राजा, कक्ष्याशब्दस्य कक्षीभावः, लवणस्य रुमण्भावः ॥ उदन्वान्प्रथमाब्धौ सप्तमी, च ॥ चशब्देन नाम्नीति शब्दस्यानुकर्षः । उदा.शब्दस्योदभावो निपात्यते उदकमत्रास्तीति मतुः प्रत्ययः ।। राजन्वान् शोभनो राजा यस्मिन्तस्मिन् ॥ नलोपाभावः निपात्यते ॥ न, ऊर्मिरादिर्येषु तेभ्यः ॥ मतोर्मो व इत्यनुवर्तते । ऊर्मिमानित्यत्र