SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ १४८ सिद्धहेमलघुवृत्तौ [ द्वितीयाध्यायस्य किम् ? ऊर्क्, न्यमार्ट् ॥ नाम्नो नोऽनह्नः ॥ ९९ ॥ पदान्ते नाम्नो नस्य लुक् स्यात् । स चेदहो न स्यात् । राजा, राजपुरुषः । अन इति किम् ? अहरेति ॥ नामन्त्रये ॥ ९२ || आमन्त्र्यार्थस्य नाम्नो नस्य लुग्न स्यात् । हे राजन् ! || क्लीबे वा ॥ ९३ ॥ आमन्त्र्यार्थस्य नाम्नः क्लीबे नस्य लुग्वा स्यात् । हे दाम !, हे दामन् ! || मावर्णान्तोपान्त्यापञ्चमवर्गान् मतोर्मो वः नो विशेषणत्वात्तदन्तविधिः । स्यादिविधावित्यस्याधिकारसत्वेन तद्विधावयं नलोपो ऽसिद्ध:, अत एव राजभ्यां राजभिः राजस्त्रित्यादावदन्तत्वविरहेण दीर्घत्वैस्त्वैत्वानि न भवन्ति । अहरेतीत्यत्र से लुप्यरीतिरत्वम्, रस्य परत्वाज्जायमाने नलोपविधाव सत्त्वान्नलोपः प्राप्तोऽतोऽनह्न इत्युक्तम् । स्यादिविधावसत्त्वादेव राजायत इत्यादौ 'दीर्घविययकयेषु चेति दीर्घो भवति । न आमन्त्रये ॥ नाम्नो नो लुगित्यभिसम्बध्यन्ते || अनेन सूत्रेण नाम्नो नोऽनह इत्यनन्तर सूत्रविहितस्य नकारलुको निषेधः क्रियते, न तु परम्परैः रात्स इत्यादिपूर्वसूत्रैर्विहितानां सकारलुगादीनामनन्तरस्यैव विधिर्निषेधो वे' न्यायात् ॥ क्लीवे, वा आमन्त्र्ये, नाम्नो नो लुगिति पदानि सम्बध्यन्ते । मश्चावर्णश्च मावर्णौ, अन्तश्चोपान्त्यश्चन्तोपान्त्यौ, मावर्णावन्तोपान्त्यौ यस्य नास्ति पचमो यस्मिन्सोऽपञ्चमः, अपश्चमश्चासौ वर्गश्चापञ्चमवर्गः, मावर्णान्तोपान्त्यश्च अपञ्चमवर्गश्च मावर्णान्तोपान्त्यापञ्चमवर्गस्तस्मात् मतोः षष्ठी, मःषष्ठी, वः प्रथमा || नाम्न इति पञ्चम्यन्ततया सम्बध्यते, तस्य विशेषणं वर्गान्तपदं ततस्तदन्तविधिः किं विद्यतेऽस्य किंवान्, मकारान्तस्योदाहरणमिदम् । शमी विद्यतेऽस्मिन्देश इति शमीवान्, मकारोपान्त्यस्योदाहरणम् । वृक्षोऽवास्तीति वृक्षवान्, अवर्णान्तस्योदाहरणम् । अहो विद्यतेऽस्येत्यहवन, अवर्णोपान्त्यस्योदाहरणम् । मरुद्विद्यतेऽत्रेति मरुत्वान्, अपञ्च 9 ,
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy