________________
१४६
सिद्धहेमलघुवृत्तौ द्वितीयाध्यायस्य स्निक् चेलस्निट् ॥ नहाहोर्द्धतौ ॥८५|| नहेस्थानाहश्च धातो), धुटि प्रत्यये पदान्ते च, यथासङ्घयं धतौ स्याताम् । नद्धा, उपानद्भया मात्थ ॥ चजः कगम् ॥ ८६ ।। धुटि प्रत्यये पदान्ते च, चजोः कगौ स्याताम् । वक्ता, वाक्, त्यक्ता, अर्द्धभाक् ।। यजसृजमृज राजभ्राजभ्रस्जवश्वपरिव्राजः शः षः ।। ८७ ।। यजादीनां धातूनाञ्चजोः शस्य च, धुटि प्रत्यये पदान्ते च षः स्यात् । यष्टा, देवेट्। स्रष्टा, तीर्थसृट् । मार्टा, कंसपरिमृट् । राष्टिः, सम्राट्। प्राष्टिः, विभ्राट् । कल्पः । पक्षे तु हो धुट् पदान्ते इति ढः । ऊवं मुह्यतीति उन्मुक् विप् ॥ न चाह् च तयोः षष्ठी, धश्च तश्च धतौ ॥ हो धुट् पदान्त इति सम्बध्यन्ते । आहोऽन्यस्यासम्भवाद्रूस्थानेत्युक्तम् । आत्थेत्याहःआदेशान्तरकरणमधश्चतुर्थात्तथोर्ध इति थस्य धत्वनिवृत्त्यर्थम् । चश्च ज च तस्य, कश्च गश्च कगम् ॥ घुटपदान्ते इति प्रवर्तते। चजोर्यद्यपि कगान्यतरविधानादपीष्टसिद्धिस्तथापि कविधाने लमादीनां गविधाने पक्कादीनामसिद्धिः स्यादतो यथासङ्ख्येनोभयविधानम् ॥ यजश्च सृजश्च मृजश्च राजश्व भ्राजश्व भ्रस्जश्च व्रश्वश्व परिव्राजश्च तस्य, शः षष्ठी, षः प्रथमा ॥ धुट पदान्ते चज इति वर्तते । यजतीति यष्टा तृच् , देवान्यजत इति देवेट 'यजादिवचेः', सृजतीनि स्रष्टा तृच्, 'अः सृजिदृशोऽकित्य' कारागमः, कंसं परि. मार्टीति कंसपरिमृट् , राजनं राष्टिः, अस्मानान्यो धुट्प्रत्ययः परो लभ्यते इटा व्यवधानादत्र तु 'क्ते ग्रहादिभ्य ' इति नियमात् क्तो इडभावः, एवं भ्राजोऽपि । राजिसहचरितस्य टुभ्राजगू दीप्तावित्यस्यैव ग्रहणादेज़ङ भेजङ् भ्राजि दीप्तावित्यस्य गत्वमेव । धानाः भृजतीति धानाभृट् क्किप , मूलं वृश्चतीति मूलवृट् किप् , परिव्रजतीत्येवंशीलः परिव्राट् , परित्यज्य सर्वं ब्रजतीति वा, लिशं ऋषैत् गतौ, लिशतीति लेष्टा, प्रच्छंत् ज्ञीप्सायां पृच्छतीति तृच् , 'अनुनासिके च च्छः शूडि' ति शोऽनेन षः, शब्दं पृच्छतीत्येवंशीलः शब्दप्राट् । आदेशोऽपि