________________
प्रथमपादः] अवचूरिपरिष्कारसहितायाम् । ग्राहिषीढम् , प्राहिषीध्वम्, अनायिढम् , अनायिध्वम् । नायिषीटुम् , नायिषीध्वम् । अकारिढम् , अकारिध्वम् । अलाविदम् , अलाविध्वम् जगृहिढे, जगृहिध्वे । आयिढम् , आयिध्वम् । हान्तस्थादिति किम् ? घानिषीध्वम् , आसिषीध्वम् ॥ हो धुट्पदान्ते ॥ ८२ ॥ धुटि प्रत्यये पदान्ते च हो ढ् स्यात् । लेढा, मधुलिट्, गुडलिण्मान् । धुट्पदान्त इति किम् ? मधुलिहौ ॥ भ्वादेर्दादेर्घः ॥ ८३ ।। भ्वादेर्धातोर्यो दादिरवयवस्तस्य हो धुटि प्रत्यये परे पदान्ते च धः स्यात् । दोग्धा, धोक्ष्यति, अधोक्, गोधुक । भ्वादेरिति किम् ? दामलिट् ।। मुहद्रुहष्णुहष्णिहो वा ।। ८४ ।। एषां हो धुटि प्रत्यये पदान्ते च घ् वा स्यात्। मोग्धा मोढा । उन्मुक् उन्मुट । द्रोग्धा द्रोढा । मित्रध्रुक् मित्रध्रुट। स्नोग्धा स्नोढा। उत्स्नुक् उत्स्नुट् । स्नेग्धा स्नेढा । चेलमधुलिट् क्वि , पदान्तत्वादनेन हो ढः । गुडं लेढीति गुडलिटू सोऽत्रास्तीति गुडलिण्मान , अत्र ढत्वतृतीयत्वयोर सत्त्वान्मावर्णेत्यादिना न वः । मधुलिहावित्यत्र मधुलेढीति विग्रहे ' गतिकारकङस्युक्तानां विभक्त्यन्तानामेव कृदन्तैर्विभक्त्युत्पत्तेः प्रागेव समास' इति न्यायेन विभत्त्युत्पत्तेः प्रागेव समासेऽन्तर्वतिन्या विभक्तरभावान्न पदत्वप्राप्तिर्येनान्तर्वतिविभक्तयाश्रयेण पदान्तत्वादृत्वप्राप्त्याशङ्का स्यात् । लीढे इति लिड्, मधुनो लिड् मधुलिड् तौ, मधुलिहाविति समासेऽपि नात्र लिहित्यस्य पदत्वं वृत्त्यन्तोऽसषे इति पदत्वनिषेधात् ।। भ्वादेः षष्ठी, द आदिर्यस्य स दादिस्तस्य घः प्रथमा । पूर्वसूत्रमनुवर्तते । दोग्धीति दोग्धा तृच, धुट्परत्वादनेन हस्य घः । धोक्ष्यतीत्यत्रानेन घकारे गडदवेत्यादेर्दस्य धकारः । एतदर्थमेव गो न विहितः । गां दोग्धीति गोधुक् । दामलिहमिच्छति, ततः किपि दामलिट् , अयं दकारादिनामधातुः, न तु भ्वादिः, ।। मुहश्च दुहश्च ष्णुहश्च ष्णिहश्च तस्य, वा ॥ दुहो नित्यं प्राप्तेऽन्येषां चाप्राप्ते वि.