________________
प्रथमपादः ]
अवचूरिपरिकारसहितायाम् ।
प्रत्ययग्रहणमप्यत्र
अजञ्जप् । एकस्वरस्येति किम् ? दामलिट् || धागस्तथोश्च || ७८ || धागश्चतुर्थान्तस्य दादेरादेर्दस्य तथोः स्ध्वोश्व प्रत्यययोः परयोश्चतुर्थः स्यात् । धत्तः, धत्थः, धत्से, धध्वे । तथोश्चति किम् ? दध्वः । चतुर्थान्तस्येत्येव ? दधाति ॥ अधश्चतुर्थात्तथोर्धः ।। ७९ ।। चतुर्थात्परयोर्धारूपवर्जाद्धातोर्विहितयोस्तथोर्धः स्यात् । अदुग्ध, अदुग्धाः । अलब्ध, अलब्धाः । अध इति किम् ? धत्तः, धत्थः । न्यायबलात्प्रत्ययत्वे तस्मिन्परे घ् इति भागस्य चतुर्थान्तत्वादादिदकारस्य चतुर्थत्वापत्तिः स्यात्, यद्यस्मिन्सूत्रे साक्षात्प्रत्ययोपादानं न स्यात् । तदुपादानाच्च न्यायानपेक्षप्रत्ययस्यैव विवक्षितत्वेन नोक्तस्थले चतुर्थत्वप्रसङ्गः । यद्येतन्न्यायो न स्यात्, 1 निरर्थकं स्यात् ॥ धागः षष्ठी, तश्च थश्च तयोः सप्तमी, च ॥ चतुर्थान्तस्य, आदेः, चतुर्थः, प्रत्यये, इत्येते आगच्छन्ति । चशब्देन स्ध्वोरित्यस्यानुकर्षः । डुधांक् धातोः वर्तमाने तसि, द्वित्वे, पूर्वस्य ह्रस्वे दकारे च, आलोपे दध् तसिति जातेऽनेन धत्वम् । एवमग्रेऽपि । न च चग्रहणं किमर्थम्, सकारे ध्वशब्दे च परे पूर्वेणैव सिद्धत्वादिति वाच्यम्, यङ्लुपि क्रियाव्यतिहारे इत्यात्मनेपदे से द्वित्वादिकृते व्यतिदाधू से इति जाते पूर्वसूत्रेण चतुर्थत्वप्रसङ्गात् । अत्र सूत्रे चकारं विधाय तेन तदनुकर्षे कृतेऽत्र धाधातोरनुबन्धेन साकं निर्देशात् ' तिवा शवानुबन्धेन निर्दिष्टं यद्गणेन च, एकस्वरनिमित्तं च पचैतानि न यङ्लुपी 'ति न्यायेन चतुर्थत्वं न भवति, व्यतिदात्से इति सिद्ध्यति ॥ नधा अधा तस्मात्, चतुर्थात्, त च थ च तथौ तयोः षष्ठी, धः प्रथमा । तथोरित्यस्यानुवृत्तिसम्भवेऽपि पुनस्तथोर्ग्रहणं कार्यित्वार्थम् । पूर्वसूत्रे हि तथोरित्यस्य सप्तम्यन्ततया निमित्तत्वेनोपादानं कृतम् । दुह् धातोरद्यतने प्रत्यये सकि, लोपे हकारस्य घत्वेऽनेन धत्वं घस्य च गः, अडागमश्च एवमग्रेऽपि । ज्ञानं बुध्यत इति ज्ञानमुत्तस्य भावः, 1 अत्र त्वप्रत्ययो
१४६