SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ १४२ सिद्धहेमलघुवृत्तौ [ द्वितीयाध्यायस्य बादेश्चतुर्थान्तस्यैकस्वरस्यादेश्चतुर्थः स्ध्वोश्च प्रत्यये ॥ || ७७ || गडदबादेश्चतुर्थान्तिस्यैकस्वरस्य धातुरूपशब्दावयवस्यादेश्चतुर्थः स्यात् । पदान्ते, सादौ ध्वादौ च प्रत्यये । पर्णघुट्, तुण्डिभमाचक्षाणः तुण्डिप् । एवं गर्द्धप्, धर्मभुत्, निघोक्ष्यते, न्यषूदुम्, वोक्ष्यते, अधुग्ध्वम्, भोत्स्यते, अभुद्धम् । गडदबादेरिति किम् ? · " ग्रहणाद्धातोर्लाभ:, अवयवे षष्ठी, अत्र धातुरूपावयवस्येति विशेष्यं षष्ठयन्तत्रयञ्च विशेषणम् । अस्य समासद्वयम्, धातुरूपश्वासौ अवयवश्चेति, धातुरूपस्यावयव इति च । आद्ये समासे पर्णघुडित्यादौ धातुरूपोऽवयवो गुहित्यादिः, पर्णगुहित्यादिसमुदायोऽवयवी, द्वितीये च समासे धातुरूपस्य तुण्डिभित्यस्यावयवो डिभित्यादिः, अथवा धातुरूपस्यावयव इति षष्ठीसमास एव स्वीक्रियते, तथा च तुण्डि - भित्यादीन्याद्यन्तवदेकस्मिन्निति न्यायं विनैव सिद्ध्यन्ति, पर्णघुडित्यादीनि च धातुरूपस्य गुहित्यादेरवयवः ' आद्यन्तवदेकस्मिन्नि 'ति न्यायेन स एवेति तेऽपि सिद्ध्यन्ति । पर्णानि गूहतीति क्विप्, सिलोपे ' हो घुट्पदान्त ' इति ढत्वेऽनेनादिगस्य घकारे, 'घुटस्तृतीयः 'विरामे वा' | धम्मं बुध्यते, क्विप् । गुह् स्यते, ' हो घुट्', अनेन घः, ' षढोः कः सि', 'नाम्यन्तस्था' । न्यघूढवम, अद्यतन्या ध्वमि, सकि, 'दुहदिह' इति तस्य लुकि, अटि, ढत्वे, धत्वे, ' तवर्गस्ये 'ति धस्य ढत्वे 'ढस्त' इति ढलोपे रूपमिदम् । एवमग्रे बोध्यम् । जभेर्य I I 1 9 लुपि ह्यस्तन्या रूपं अजञ्जप् । दाम लिहमिच्छन् दामलिट् । अत्र सूत्रे' प्रत्ययाप्रत्यययो 'रिति न्यायात्प्रत्ययत्वे लब्धेऽपि पुनः प्रत्ययशब्दोपादान 'मुभयस्थाननिष्पन्नोऽन्यतरव्यपदेशभागि 'ति न्यायं सूचयति । धाधातोः वसि द्वित्वे पूर्वस्य ह्रस्वे 'द्वितीयतुर्ययोः पूर्वावि' 1 ति दत्वे ' अश्वात' इति धातोराल्लुकि, ' अदीर्घादि 'ति धस्य द्धित्वे दधू ध्वसिति स्थिते ध्वस्य प्रकृतिप्रत्ययस्थानजन्यत्वेन एत
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy