________________
प्रथमपादः ] अवरिपरिष्कारसहितायाम् । १४१ ।। ७३ ।। पदान्ते सजुषोः रुः स्यात् । सजूः, सर्वत् ॥ अहः ॥ ७४ ॥ अहः पदान्ते रुः स्यात् । हे दीर्घाहो निदाघ ! दीर्घाहा निदाघः ॥ रो लुप्यरि ॥ ७५ ॥ अरेफे परे पदान्ते अहो लुपि सत्यां रः स्यात् । अहरधीते, अहर्दते । लुपीति किम् ? हे दीर्घाहोऽत्र । अरीति किम् ? अहोरूपम् । धुटस्तृतीयः ॥ ७६ ॥ पदान्ते धुटां तृतीयः स्यात् । वाग्, वाग्भिः, अभिः ॥ गडद
पवादः । तदन्तेऽप्येतत्प्रवर्तते, तेन प्रियसजूरित्यत्रापि रुत्वं भवति ॥ अह्नः षष्ठी ॥ रुरित्यनुवर्तते । दीर्घान्यहानि यस्मिन् स दीर्घाहा, तस्य सम्बोधनं हे दीर्घाहः, अत्रानेन नकारस्य रुः, अस्य रुत्वस्यासिद्धत्वान्नान्तलक्षणो दीर्घो भवति, तथा च दीर्घाहाः। निदह्यतेऽस्मिन्निति निदाधः ॥ रः प्रथमा, लुपि, न र् अर्तस्मिन् ॥ पदान्ते, अह्न इति पदद्वयं वर्तते । अहरधीत इति — कालाध्वनो' र्द्वितीया, अत्र सेलृपि सत्यां अरेफपरत्वाद्रोरपवादभूतः रान्तादेशो भवति..। रविधानाच्चात्रातोऽति रोरुरिति सूत्रेण न उः । यद्यपि हे दीर्घाहोऽत्रे. त्यत्र विभक्तेलुंबस्ति तथापि यदपेक्षया लुप् तदपेक्षया पदत्वमत्र नास्ति, वाक्यविभक्त्यपेक्षया लुप् साक्षाद्विभक्त्यपेक्षया तु पदत्व. मस्तीत्येकापेक्षत्वविरहेण न दोषः । प्रकृष्टमहः अहोरूपम् ॥ धुटः षष्ठीतृतीयः प्रथमा ॥ अजिभरिति चस्यानेन जत्वे ' अजि'ति संज्ञाशब्दत्वान्न 'चजः कगम् ', संज्ञाशब्दत्वेऽप्यचो जत्वे न विवक्षितसंज्ञाया अप्रतिपत्तिः, कत्वे कृते त्वका अचो बोधो न स्यात्तस्य प्रत्याहारान्तरत्वात् ॥ गश्च डश्च दश्व बश्च गडदबं तदादिर्यस्य तस्य, चतुर्थोऽन्ते यस्य तस्य, एकः स्वरो यस्य तस्यादेः षष्ठी, चतुर्थः प्रथमा, स् च ध्व च स्दवै तयोश्च, प्रत्यये । चकारेण पदान्त इत्यस्यानुकर्षणमुत्तरत्र च नानुवृत्तिरत एव 'चानुकृष्टं नान. वर्तत ' इति न्यायात् स्ध्वोः प्रत्यययोर्धात्वव्यभिचारितया तयो