SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ १४० सिद्धहेमलघुवृत्तौ [द्वितीयाध्यायस्य विद्वत्कुलम् , स्वनडुद् । क्वस्सिति द्विसकारपाठादिह मा भूत् , विद्वान् । ऋत्विज्-दिश्-दृश्-स्पृश्-स्रज्-दधृषुष्णिहो गः ॥ ६९ ॥ एषां पदान्तस्थानां गः स्यात् । ऋत्विग् , दिग्, दृग् , अन्यादृग्, घृतस्पृग् , स्रग, दधृग्, उष्णिम् ॥ नशो वा ॥७०॥ नशः पदान्ते ग् वा स्यात् । जीवनग्, जीवनड् ॥ युजञ्चक्रुश्चो नो ङः ॥ ७१ ॥ एषां नस्य पदान्ते ङः स्यात् । युङ, प्राङ्, क्रुङ् ॥ सोरुः ।। ७२ ॥ पदान्ते सोरुः स्यात् । आशीः, वायुः ॥सजुषः स्पृश्च, सज च दधृष् चोष्णिह् च, तस्य गः ॥ पदान्त इति वर्तते, एवमग्रेऽपि । एते शब्दाः सूत्र निर्देशादेवंरूपतया भाव्याः, पदान्ते गश्च । ऋत्विग्दिगित्येवं गान्तानां निपातने गत्वसन्नियोगशिष्टतैव निपातनस्य ज्ञायमानतया ततो व्यावृत्तौ ददृशावुष्णिहो न स्याताम् । गत्वस्य विधाने च निपातनं सर्वत्र भवतीति ॥ नशः षष्ठी, वा ।। ग इत्यनुवर्तते । जीवस्य नशनं जीवनगू। 'भ्वादिभ्यो वे 'ति क्विप्, 'यजसृजे 'ति षः, 'धुटस्तृतीयः ' षस्य डः, अनेन वा गः ॥ युज् च अञ्च च क्रुञ्च च, तस्य, नः षष्ठी, ङः प्रथमा । युनक्तेः क्विपि, घुटि नागमे संयोगान्तलोपेऽनेन ङः । अश्चतेरनर्चायां नलोपे घुटि नागमे, अर्चायान्तु नलोपाभावेऽनेन ङः । एवं क्रुश्चतेरपि । अत एव निर्देशात् क्रुश्चेनेलोपो न । नन्वत्र 'षष्ठयान्त्यस्ये 'ति नकारस्यैव उकारो भवति, किं न इति मैवम् , युजिच् समाधावित्यस्यापि पदान्ते युङित्यापत्तेः, इष्यते च युगिति ॥ सोः षष्ठी, उः प्रथमा ॥ आशीः, षत्वस्यासिद्धत्वाद्रुत्वम् , पदान्त इति दीर्घत्वम् ।। सजुषः षष्ठी ॥ रुरिति वर्तते । 'षष्ठ्यान्त्यस्य ' जुषैति प्रीतिसेवनयोः । सहजुषते इति विप् , सूत्रनिर्देशात् सहस्य सः, ' अप्रयोगीत् ' ' दीर्घडयाबि 'त्यनेन रः, ' पदान्त' इति दीर्घः । सजूरिव सर्वत्, ' स्यादेरिवे' इति वत् । 'धुटस्तृतीय' इत्यस्या
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy