________________
प्रथमपादः ] अवरिपरिष्कारसहितायाम् । १३९ परयोनः स्यात् । प्रशान्, प्रशान्भ्याम् , जगन्मि, जङ्गवः ॥ स्त्रं स्ध्वंस्कस्सनडुहो दः ॥ ६८ ॥ संस्ध्वंसोः क्स्प्रत्ययान्तस्य च सन्तस्य, अनड्डहश्च पदान्तस्थस्य दः स्यात् । उखासद्, पर्णध्वद् ,
च अनडुङ् च तस्य, दः ॥ पदान्त इति वर्तते । कस्सिति प्रत्ययः तेन तदन्तं ग्राह्यम् । उखया संसते उखासद्, अत्र उखास्रस् इत्यस्य 'षष्ठयान्त्यस्ये 'ति सस्य दः । एवमग्रेऽपि । शोभनोऽनड्वाहो यत्र स्वनडुद् । अत्र तकारे विधीयमानेऽपि 'धुटस्तृतीय' इति दकारो भविष्यतीति किं दकारविधानेनेति चेन्न, धुटस्तृतीय' इति दत्वस्य परेऽसदिति वचनादसिद्धत्वेन दकारस्य श्रवणाभावप्रसङ्गात् । विद्वानिति, कसस्सकारस्य 'पदस्येति लोपेन विद्यमानत्वाभावान्नात्र दः । कसित्यत्र ककारग्रहणं वस्धातुपरिहारार्थम् । कसः सकारो विशेषितो विद्यमानतालाभाय । एवं तर्हि अनड्वानित्यादौ नकारस्य दकारः स्यादत्र कस्यापि विशेषणस्याभावादिति चेन्न, नकारविधानसामर्थ्याहत्वाभावात् । न चानड्वान्ह इति दशायां ' पदस्ये 'ति लोपं बाधित्वानेन दत्वं स्यादिति वाच्यम् , ' येन नाप्राप्ते यो विधिरा. भ्यते स तस्यैव बाधक ' इति न्यायेन रुत्वढत्वयोरेवास्य बाधकत्वात् , न तु 'पदस्ये 'त्यस्य, संयोगान्तलोपस्य प्राप्तावप्राप्तौ च सत्यामेतत्सत्रारम्भात् । विद्वत्कुलमित्यादिषु संयोगान्तलोपस्याप्राप्तावपि विद्वानित्यादौ तत्प्राप्तावपि हीदमारभ्यते । हे विद्वानित्यादिलिङ्गत्रयेऽपि तु सर्वत्र ' सोरु ' रिति रुत्वस्य हे अनड्वनित्यादिलिङ्गत्रये सर्वत्र च ढत्वस्यावश्यं प्राप्तौ सत्यां दत्वविधिरारभ्यते । संयोगान्तलोपस्याबाधकत्वादेव च कसः सितिविशेपणमुपात्तम् , इदमेव च विशेषणमुक्तन्यायं व्यञ्जयति । यदि सूत्रमिदं रुत्वढत्वे इव संयोगान्तलोपमपि बाधते, तर्हि सितिविशेषणं व्यर्थं स्यात् , क्वसः क्वापि सन्तत्वाव्यभिचारात् ॥ ऋत्विज् च दिश्व, दृश्च,