________________
प्रथमपाः ] भवरिपरिष्कारसहितायाम् । १३७ ॥६२ ॥ से परे ष-ढोः कः स्यात् । पेक्ष्यति, लेक्ष्यति ॥ भ्वादेर्नामिनो दीर्घो र्वोय॑ञ्जने ॥ ६३ ॥ भ्वादेर्धातो? रवौ तयोः परयोस्तस्यैव नामिनो दीर्घः स्याद्यञ्जने । हुर्छा, आस्तीर्णम् , दीव्यति। भ्वादेरिति किम् ? कुकुरीयति, दिव्यति ॥ पदान्ते ॥६४॥ पदान्तस्थयोर्वादेःोः परयोर्वादेर्नामिनो दीर्घः स्यात् । गीः, गीरर्थः। ऽपि कर्तव्ये नत्वस्यासिद्धत्वापच्या षकारापत्तिः स्यादतोऽषीति कृतम् । तथा षत्वे कर्तव्ये नत्वं नासिद्धमतो धुट्प्रत्ययपरत्वाभावान षत्वम् । 'चजः कगमिति कत्वे कर्तव्ये तु नत्वमसद्भवति, तेन धुट्प्रत्ययपरत्वात् 'चजः कग 'मिति कः । ' रघुवर्णेति नस्य णः ॥ षश्च ढश्च षढी तयोः, कः प्रथमा, सि सप्तमी ॥ पिप्लंप् सञ्चर्णने । लिहीक् आस्वादने । आये उदाहरणे स्यति परे षस्य कः, द्वितीये च ढस्य कः ॥ भू आदिर्यस्य तस्य, नामिनः षष्ठी, दीर्घः, र् च व् च ौं तयोः, व्यञ्जने ॥ भ्वादेरिति प्रत्यासत्त्या ऊरित्यनेन नामिन इत्यनेन च सम्बध्यते । एकप्रयत्नेन द्वयोरुपादानं प्रत्यासत्तिः, शब्दान्तरं प्रतीत्य शब्दान्तरस्यासत्तिः प्रत्यासत्तिरिति व्युत्पत्तेः । हूर्छा कौटिल्ये, अनेन दीर्घः । आस्तीर्यते स्म आस्तीर्णम् । दिवूच क्रीडादौ । कुर्कुरमिच्छति कुकुरीयति, दिवमिच्छतीति क्यन् , नामधातुत्वादत्र दीर्घो न स्यात् । एतत्सूत्रविहितो दीर्घोऽनित्यः, 'स्थानिवद्भावपुंवद्भावैकशेषद्वन्द्वैकत्वदीर्घत्वान्यनित्यानी 'ति न्यायात्, नित्यत्वे हि हुर्छादीनामिव स्फूर्ज ऊर्ज ऊणु, इत्यादीनामप्यकृतदीर्घानां धातुषु पाठः स्यात् दीर्घपाठाद्विज्ञायतेऽनेन सूत्रेण विहितो दीर्घोऽनित्य इति ।। पदस्य अन्तस्तस्मिन् ॥ भ्वादेनामिनो दी| वोरित्यनुवर्तते । गिरणं गीः, 'क्रुत्सम्पदादिभ्यः किप्' । 'ऋतां क्ङितीरि'ति इरादेशः । अत्र किप्सम्बन्धिवकारव्यञ्जनद्वारा 'नामसिदयव्यञ्जन' इति पदत्वं तु 'किपि व्यञ्जनकार्यमनित्यमिति न्यायान्न भवति । गिर लुव इति जसन्तं रूपम् , पदान्ते ोरभावान्न
१८