________________
१३६ : सिद्धहेमलघुवृत्तौ । द्वितीयाध्यायस्य सपीषि । असत्पर इत्यधिकारो " रात्स " इति यावत् ; स्यादिविधौ चेति तु " नोर्यादिभ्य " इति ॥ क्तादेशोऽषि ॥ ६१ ॥ केनोपलक्षितस्य तस्यादेशः षादन्यस्मिन् परे पूर्वस्मिश्च स्यादिविधावसन् स्यात् । क्षामिमान् , लून्युः । अषीति किम् ! वृक्णः ॥ षढोः कस्सि च पिपठिषित्यस्याभ्वादिरूपत्वात्कथं दीर्घ इति वाच्यम, भ्वाधवयवेन पठित्यनेन योगात् समुदायस्यापि पिपठिषो भ्वादिरूपत्वात् । न चैवं कुकुरीयतीत्यादौ धातुत्वमनेन प्रकारेण भवादित्वमप्यस्तीति दीर्घः स्यादिति वाच्यम् , तत्र धातुत्वसत्त्वेऽपि पिपठीः इत्यादिवन्न भ्वाद्यवयवात्ततः प्रत्ययो विधीयते, किन्तु नाम्न एव तद्भवाद्यवयवयोगाभावात् कुकुरीयेत्यादिसमुदायस्य न भवादित्वम् । अर्वाणी, सीषि, अत्र णत्वषत्वयोरसिद्धत्वादुपान्त्य दीर्घत्वं सिद्धम् ॥ ककारेणोपलक्षितस्तः क्तस्तस्यादेशः क्तादेशः, न ए अष् तस्मिन् । केनोपलक्षितस्येति क्तक्तवतूक्तिक्तानां प्रहणम् । परे इत्येतत्सूत्रापेक्षया परे, न तु क्तादेशविधायकसूत्रापेक्षया । अन्यथा क्तादेशविधायक सूत्रापेक्षया 'यजसृजेति षत्व विधायकसूत्रस्य परत्वाभावेन अषीति प्रतिषेधो व्यर्थः स्यात् , एतत्सूत्रापेक्षया च परत्वे 'यजसृजे 'ति षत्वस्य परत्वात्तस्मिन्नप्यसत्त्वे प्राप्ते अषीतिप्रतिषेधः सार्थकः स्यात् , अतः एतत्सूत्रापेक्षया परत्वं ग्राह्यम् । क्षामस्याऽपत्यं क्षामिः सोऽस्यास्तीति क्षामिमान् । क्षामशब्दस्तु : धातोः क्तेन निष्पन्नः 'शुचिपचोमकवमिति तस्य मः, तस्यासत्त्वा 'न्मावर्णान्ते'त्यादिना मतोर्मों वो न भवति । लन्युरिति, लूनमिच्छतीति क्यनि किपि लूनिः, षष्ठ्यां तु लून्युः, अत्र 'ऋल्वादे 'रिति विहितस्य नत्वस्यासत्यात् ' खितिखीतीय उरि 'त्युर्भवति । वृक्ण इति, व्रश्यते स्म क्तः, 'प्रहश्येति वृत् ' सूयत्वाद्योदितः' तस्य नः, 'संयोगस्यादौ' सलोपः, वृच् न इति जातेऽत्र सूत्रे अषीत्यभावे 'यज सृजेति षत्वे.