SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ प्रथमपादः ] अवरिपरिष्कारसहितायाम् । १३५ भिः सह या किवृत्तिस्तत्सम्बन्धिन एव भुवो धातोरुवर्णस्य स्वरादौ स्यादौ परे वः स्यात् । इन्भ्वौ, पुनर्बी, वर्षाभ्वः, कारभ्वः । दृनादिभिरिति किम् ? प्रतिभुवौ ॥ षमसत्परे स्यादिविधौ च ॥६०॥ इतः सूत्रादारभ्य यत्परं कार्य विधास्यते तस्मिन् , स्याद्यधिकारविहिते च पूर्वस्मिन्नपि कर्तव्ये, णत्वं षत्वं चासदसिद्धं स्यात् । एतत्सूत्र. निर्दिष्टयोश्च णषयोः परे षे णोऽसन् । पूष्णः तक्ष्णः, पिपठीः, अर्वाणी, कयोरन्तरान्तराले प्रतिभवत इति प्रतिभुवौ, एतैरेव भुवो नान्यैः । पूर्वेण सिद्धे नियमार्थमिदम् ॥ णश्च षश्च णषम् , न सदसत् , परे, स्यादेविधिः स्यादिविधिस्तस्मिन्, च ॥ षणमिति विपर्ययनिर्देशे त्वभिषुणोतीत्यादि न सिद्धयेत् , षत्वस्योपसर्गात् सुगिति विहितस्य णत्वे परेऽसत्त्वेन 'रषवर्णादिति णत्वं न स्यात् । अतः क्रम त्यत्वा णषमिति कृतम् । क्रमश्च विधानक्रमो ज्ञेयः, अग्रे हि प्रथम पत्वं ततो णत्वं विधीयते । अत्रासद्विधौ पक्षद्वयं कार्यासिद्धत्वपक्षः शास्त्रसिद्धत्वपक्षश्चेति । कार्यासिद्धत्वपक्षाश्रयणे पूष्ण इत्यादौ अनोऽकारलोपो न स्यात् , यथा हि देवदत्तस्य हन्तरि हते सति न देवदत्तम्य दर्शनं तथात्र णत्वस्यासिद्धत्वेऽपि न नकारस्य दर्शनमस्तीति 'अनोऽस्येति न प्रवर्तेत, तस्माच्छास्त्रासिद्धत्वपक्षः आश्रयणीयः । तत्पक्ष पूर्वमन्तरङ्गादिहेतुतः प्रवृत्तेऽसच्छानेऽसिद्धत्वबोधनेन तद्विहितादेशे लक्ष्ये जातत्वबुद्ध्यभावस्य तत्कृतस्थानि निवृत्तिबुद्ध्यभावस्य च बोधनेन अनोऽकारलोपविधायकसूत्रप्रवृत्तिसम्भवेन पूष्ण इत्यादिरूपसिद्धिः । यत्र च द्वयोः सूत्रयोः सहप्रसङ्गस्तत्रासच्छास्त्रेऽभावारोपेण तस्याप्रवृत्तिरेव भवति । अत्रासदित्याहार्यारोपरूप एवासद्भावो वेदितव्यः, न त्वनाहार्यज्ञानरूपोऽसद्भावः, सर्वथा तल्लोपप्रसक्तेः । पूष्णः तक्ष्णः, अत्र णत्वस्यासत्त्वादनोऽकारलोपो भवति । पिपठी, अत्र पत्वस्यासिद्धत्वात् सस्य रुर्भवति । 'पदान्त' इति दीर्घः, न
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy