SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ प्रथमपादः] अवचूरिपरिष्कारसहितायाम् । १३३ अतिस्त्रियौ ॥ वाऽम्शसि ॥ ५५ ॥ स्त्रिया इवर्णस्याम्शसोः परयोरिय्वा स्यात् । स्त्रियम् , स्रीम् । स्त्रियः, स्त्रीः ॥ योऽनेकस्वरस्य ॥५६॥ अनेकस्वरस्य धातोरिवर्णस्य स्वरादौ प्रत्यये परे यः स्यात् । चिच्युः, निन्युः । पतिमिच्छति पत्यि ॥ स्यादौ वः ॥ ५७ ।। अनेकस्वरस्य धातोरुवर्णस्य स्वरादौ स्यादौ परे वः स्यात् । वसुमिच्छ न इय् भवत्यनर्थकत्वात् ।। वा, अम् च शस् च अम्शस् तस्मिन् ।। स्त्रियाः इवर्णस्य इय् इत्यनुवर्तन्ते । पक्षे ' समानादमोऽतः ' । स्त्रीशब्दात्तद्धितशस्प्रत्ययस्यासम्भवेन द्वितीयाबहुवचनस्यैव शसो ग्रहणात्तत्साहचर्यात्तत्पूर्ववर्त्तित्वाच्च द्वितीयैकवचनमेवाम् गृह्यते । अतो न षष्ठीबहुवचनाशङ्का ॥ यः प्रथमा, न एकः अनेकः, अनेकः स्वरो यस्य, तस्य ॥ धातोः इवर्णस्य, स्वरे, प्रत्यये इत्यनुवर्तन्ते । · विशेषातिदिष्टो विधिः प्रकृताधिकारं न बाधत ' इतिन्यायेन · भ्रश्नोः ' ' स्त्रियाः' 'वाम्शसी 'ति सूत्रत्रये विशेषातिदेशसद्भावेनानुक्तोऽपि धातोरित्यधिकारोऽत्रुटितत्वादत्र पुनः प्रादु. भवति, अयमेव मण्डूकप्लुतिन्याय उच्यते । पत्यीति नामधातुसम्बन्धीवर्णस्य सत्त्वात्स्वरे परे यः, पतिमिच्छतीति सप्तम्या रूपम् ॥ स्यादौ, वः प्रथमा ॥ धातोरुवर्णस्य, स्वरे, प्रत्यये, अनेकस्वरस्येत्येषामनुवर्तनम् । वस्वाविति, यद्ययमनेकस्वरो धातुस्तर्हि ततः स्यादिविभक्तेन प्रसङ्गस्तस्याः नाम्नो भावात् , यदि च नामत्वं वसूशब्दस्य तर्हि न यत्वं प्रसज्यत इति धातुत्वनामत्वयोः कार्यमेकस्य कथमिति चेत्तर्हि सूत्रमिदं व्यर्थं सत् , ' कियन्ता धातुत्वं नोज्झन्ति, शब्दत्वच प्रतिपद्यन्त ' इति न्यायमाविर्भावयति । अनेन च किबन्तानां धातुत्वनामत्वयोरव्याहतत्वादुभयाश्रितं कार्य भवति । एवं · गौणमुख्ययोर्मुख्य कार्यसम्प्रत्यय ' इति न्यायोऽप्यत्र न प्रवर्तते । सूत्रमिदं हि वस्वाक्त्यिादौ वत्वसिद्ध्यर्थम् , तच्च
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy