SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ १३२ सिद्धहेमलघुवृत्ती [ द्वितीयाध्यायस्य नयनं नायक इत्यादौ परत्वाद्गुणवृद्धी ॥ इणः ॥ ५१ ॥ इणो धातोः स्वरादौ प्रत्यये परे इय् स्यात् । यापवादः । ईयतुः ईयुः || संयोगात् ॥ ५२ ॥ धातोरिवर्णोवर्णयोः संयोगात्परयोः स्वरादौ प्रत्यये परे इयुवौ स्याताम् । यवक्रियौ, कटप्रुवौ, शिश्रियः ॥ भ्रश्नोः ॥ ५३ ॥ श्रभोरुवर्णस्य संयोगात्परस्य स्वरादौ प्रत्यये परे उद् स्यात् । भ्रुवौ, आप्नुवन्ति । संयोगादित्येव । चिन्वन्ति ॥ स्त्रियाः || ५४ || स्त्रिया इवर्णस्य स्वरादौ प्रत्यये परे इय् स्यात् । स्त्रियौ, शब्दत्वञ्च प्रतिपद्यन्त इति न्यायाद्धातुत्वं नामत्वश्च भाव्यम् । प्रत्यय इत्युक्तत्वात्स्याद्यधिकारनिवृत्तिः ॥ इणः षष्ठी ॥ धातोः इय्, स्वरे, प्रत्यये इत्येतेषामनुवृत्तिः । यापवाद इति, ' योऽनेकस्वरस्ये 'ति प्राप्तस्य यत्वस्यापवादः इण् धातोः : परोक्षे अतुसि द्वित्वे ' वर्णात्प्राकृतं बलीय' इति वर्णमुच्चार्य विहितात्कार्यात्प्रकृतिमुच्चार्य यत्कार्यमुक्तं तद्बलवदित्यर्थकेन न्यायेन इणधातुरूपप्रकृतिमुश्चार्य विहित इयादेशः प्रथमं प्रवर्तते, ततो दीर्घः ॥ संयोगात् ॥ धातोरिवर्णोवर्णस्येयुव स्वरे प्रत्यय इतिसूत्रं सम्बध्यते । यवान् क्रीणात इति यवक्रियौ, कटेन प्रवेते किपि कटप्रुवौ । ' क्विब्वृत्तेः ' ' योऽनेकस्वरस्ये 'ति विहितयोर्यत्ववत्वयोरपवादः । ' पूर्वेऽपवादाः अनन्तरान्विधीन्बाधन्ते नोत्तरानि 'ति न्यायस्या नित्यत्वेनात्राप्रवृत्तेः । धातुना संयोगस्य विशेषणादिह न भवर्ति, उन्न्यौ ॥ अत्र संयोगो न धातुमात्रसम्बन्धी ॥ भ्रूश्च शुश्च तस्य । उवर्णस्य, संयोगात्, स्वरे, प्रत्यय इत्यनुवर्तन्ते । संयोगादिति श्रोरेव विशेषणम्, न तु भ्रूशब्दस्याव्यभिचारात् ॥ स्त्रियाः षष्ठी || इवर्णस्य इयू, स्वरे प्रत्यये इति सम्बध्यन्ते । पृथग्योग उत्तरार्थः । ' ग्रहणवता नाम्ने ति तु न प्रवर्तते, 'बेयुवोऽखिया' इति निर्देशात्, 'अर्थवद्रणे नानर्थकस्य ग्रहणमि 'ति न्यायेन शस्त्रीशब्दसम्बन्धिनः स्वरे परे " " -
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy