________________
१३१
प्रथमपादः] अवचूरिपरिष्कारसहितायाम् । अदसो मः परस्य वर्णस्येनादेशात्मागुवर्णः स्यात् , अमुना । इनादिति किम् ! अमुया ॥ बहुष्वेरीः॥४९॥ बह्वर्थवृत्तेरदसो मः परस्य एत ई: स्यात् । अमी, अमीषु । एरिति किम् ? अमूः स्त्रियः। मादित्येव ? अमुके ॥ धातोरिवर्णोवर्णस्येयुत् स्वरे प्रत्यये ॥ ५० ॥ धातोरिवर्णोवर्णयोः स्वरादौ प्रत्यये परे यथासङ्ख्यमियुवौ स्याताम् । नियो, लुवौ, अधीयते, लुलुवुः । प्रत्यय इति किम् ? न्यर्थः, स्वर्थः
बहुषु, ए: इति षष्ठी, ईः प्रथमा ॥ अदसो म इत्यनुवर्तेते । बहुवित्यदसो विशेषणम् | अम जसिति स्थिते । जस इ.', गुणः, अमे इति जातेऽनेन सूत्रेण एरीत्वम् । अमुके इत्यत्राकस्तन्मध्यपतितस्य तद्हणेन ग्रहणेऽप्युकारेण व्यवधानान्न ईत्वम् ॥ धातोः षष्ठी इवर्णश्चोवर्णश्च तस्य, इय् च उव् च उयुव , स्वरे, प्रत्यये ।। स्वरे इत्यत्र — सप्तम्या आदि ' रिति परिभाषया स्वरादाविति लभ्यते । ' प्रत्ययाप्रत्यययो 'रिति न्यायेन प्रत्यये एव भविष्यति, किं प्रत्यय. ग्रहणेनेति चेन्न, ' न्यायाः स्थविरयष्टिप्राया' इति न्यायेन न्यायानां प्रवृत्तेः । यथासङ्ख्यमिति, इव!वर्णस्येति द्रव्यार्थादेशेन, 'वर्णग्रहणे जातिग्रहणमि 'ति न्यायेन चेत्वोत्वसामान्यापेक्षया यथासमं विज्ञेयमन्यथा पर्यायार्थादेशेन प्रत्येकमष्टादश विधेवर्णोवर्णयोः प्राप्त्या यथासङ्घयत्वं दुर्घटं स्यात् । अत्र 'गौणमुख्ययोर्मुख्ये कार्यसम्प्रत्यय' इति न्यायो न प्रवर्तते, तेन मुख्यधातुष्वधीयते लुलुवुरित्यादौ किबन्तत्वेन गौणधातुषु नियौ लुवावित्यादौ च इयुवौ सिद्धौ। न च नियौ लुवावित्यादावियुवौ न स्याताम् , ' धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानमि 'ति न्यायेन किबन्तजनाम्ना विहिते प्रत्यये परे धातुनिमित्तकार्यनिषेधादिति वाच्यम् , "किन्वृत्तेरसुधियस्ताविति सूत्रे सुधीशब्दस्थेवर्णस्य यत्ववर्जनत्वोक्त्यात्र प्रकरणे उक्तन्यायाप्रवृत्तिसूचनात् । नियौ लुवावित्यादौ । विबन्ता धातुत्वं नोज्ज्ञन्ति