SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ १३० सिद्धहेमलघुवृत्ती [ द्वितीया न्यायस्य असुकः, असकौ, हे असुक ! हे असकौ ! ॥ मोऽवर्णस्य ।। ४५ ॥ अवर्णान्तस्य त्यदामदसो दो मः स्यात् । अमू नरौ स्त्रियौ कुले वा । अमी, अमूदृशः । अवर्णस्येति किम् ? अदः कुलम् ।। वाद्रौ ॥४६॥ अदसोऽद्रावन्ते सति दोर्वा स्यात् । अदमुयङ्, अमुद्रयङ्, अमुमुयङ्, अदद्रयङ् ॥ मादुवर्णोऽनु ॥४७॥ अदसो मः परस्य वर्णस्य उवर्णः स्यात् । अनु-पश्चात्कार्यान्तरेभ्यः । अमुम् , अमू , अमुमुयङ् । अन्विति किम् ? अमुष्मै, अमुष्मिन् ॥ प्रागिनात् ।।४८।। नुवर्तन्ते । अदस् औ इति स्थिते आवरः ', ' लुगस्ये ' त्यलुकि अद् औ इति जातेऽनेन सूत्रेण दकारस्य मकारे 'ऐदौत्सन्ध्यारैरि' त्यमाविति जाते, · मादुवर्णोऽन्वि 'ति मकारोत्तरौकारस्य दीर्घत्वादूकारे अमू इति । असाविव दृश्यते अमूदृशः । 'त्यदाद्यन्यसमानादुपमानादि 'ति टक् प्रत्ययः, ' अन्यत्यदादे' इति सस्यात्वमनेन मः, ' मादुवर्ण' इति आ उ ॥ वा, अद्रौ सप्तमी ॥ अदसो दो म इत्यनुवर्तन्ते । अदमुयडित्यादिरूपं प्रागेव साधितम् ॥ मात्, उवर्णः, अनु ॥ अदस इति वर्तते । अमुष्मै इत्यादौ, अम स्मै इति जातेऽधुनैव मपरस्याकारस्योवणे कृतेऽदन्तत्वाभावेन स्मायादयो न स्युरतोऽनुग्रहणम् । न च यदि पूर्वमेवोवर्णः क्रियते तदा ‘प्रागिनादि 'ति सूत्रं व्यर्थ सद्यदि कार्यान्तरात्प्रागुवर्णः स्यात्तदा इनादेवेति नियमपरं भवतीति स्मायाद्यादेशानन्तरमेवोवर्णस्य भावान्नामुष्मै इत्यादावदोष इति वाच्यम् , इनादेशस्य प्रत्ययादेशरूपतया प्रत्ययादेशादेव पश्चादुवर्णः, न तु प्रकृत्याऽऽदेशादित्याशङ्कासम्भवेन अमुया अमुयोरित्यादीनामसिद्धिप्रसङ्गात् । अत्र हि पूर्वमेवोत्वे आवन्तत्वविरहेण · टौस्येदि 'त्येत्वं न स्यात् ॥ प्राक, इनात्।। अदसः, मादुवर्ण इत्यनुवर्तते । अम टा इति स्थिते इनादेशे प्राप्तेऽनेन सूत्रेणावर्णस्य उः, ततः 'टः पुंसि ने' त्यमुना, अन्वित्यस्यापवादोऽयम् ॥
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy