________________
प्रथमपादः ]
अवचूरिपरिष्कारसहितायाम् ।
१२७
स्यात्, अवृत्त्यन्ते । इमकाभ्यां शैक्षकाभ्यां रात्रिरधीता, अथो आभ्यामहरप्यधीतम् । इमकेषु, अथो एषु । अनगिति वक्ष्यमाणादिह साकोऽपि विधिः || अनक् || ३६ || त्यदादेर्व्यञ्जनादौ स्यादौ परेऽग्वर्ज इदं अः स्यात् । आभ्याम्, आभिः, एषु, आसु । अनगिति किम् ? इमकाभ्याम् । त्यदामित्येव ! अतीदंभ्याम् || टौस्यनः ॥ ३७ ॥ त्यदां टायामोसि च परेऽनक इदमोऽनः स्यात् । अनेन, अनया, अनयोः, अनयोः | त्यदामित्येव ? प्रियेदमा । अनक इत्येव ? इमकेन ॥ अय
1
·
मोऽन्वादेशेडवृत्यन्ते।, इत्येतेषामनुवृत्तिः । इदम इति षष्ठयन्तमप्यत्र सूत्रे स्थानिनोऽनुपादानाज्ज्ञापितेन 'अर्थवशाद्विभक्किविपरिणाम' इति न्यायेन सर्वादेशार्थं प्रथमान्ततया विपरिणम्यते, अन्यथा षष्ठयन्तस्यैवानुवर्तने ' षष्ठान्तस्ये 'ति परिभाषया मस्यैवादादेशः प्राप्नुयात्, सम्पूर्णस्य चेष्टः, अस्येत्यादिप्रयोगदर्शनात्तस्मात् । प्रथमान्त इदं शब्दः स्थानिभूतो ग्राह्यः । स्यादेरधिकाराद्व्यञ्जनादिपरे आदेशः । अदित्यत्र तकार उच्चारणार्थः, अन्यथा सौ ' सोरु 'रित्यादौ कृते ओ इत्यनिष्टं रूपं स्यात् । न विद्यते अक् यस्य सोऽनक् । त्यदाम्, इदमोदयञ्जने इति सम्बध्यते । अत्रापीदमः प्रथमान्तत्वेन विपरिणामः कर्तव्यः, अनगिति विशेषणबलात् । अनगिति सूत्रमपि ' अर्थवशाद्विभक्तिविपरिणाम ' इत्यस्य निर्णायकम् । पृथक्सूत्रकरणादन्वादेशेऽवृत्त्यन्त इति च निवृत्तम् । त्यदामिति षष्ठी सम्बन्धेऽर्थे व्यञ्जने इत्यस्य विशेषणम्, त्यदादितो विहिते व्यञ्जनादौ स्यादौ परे इति भावार्थ: अत एवातीभ्यामित्यादौ नेदमोऽदादेशः । इदम् भ्यामित्यत्रानेनेदमोऽदादेशे ' अतः आः स्यादा' वित्यात्वे आभ्याम् । इदमतिक्रान्तौ ताभ्यामतीदंभ्यामिति ॥ टा' च औस् च तस्मिन्, अनः प्रथमा ॥ त्यदामिदमोऽनगित्यनुवर्तन्ते । प्रियोऽयं यस्यासौ प्रियेदम् तेन, अत्र टाविभक्तेस्त्यदादिसम्बन्धित्वाभावान्नादेशः ॥ अयं च इयं