________________
१२६
सिद्धहेमलघुवृत्तौ
[ द्वितीयाध्यायस्य
त्यदामेन देतदोद्वितीयाटयैस्यवृत्त्यन्ते ॥ ३३ ॥ त्यदादीनातदो द्वितीयायां टायामोसि च परेऽन्वादेशे एनद् स्यात्, न तु वृत्त्यन्ते । उद्दिष्टमेतदध्ययनमथो एनदनुजानीत, एतकं साधुमावश्यकमध्यापय, अथो एनमेव सूत्राणि । अत्र साकः । एतेन रात्रिरधीता, अथो एनेनाहरप्यधीतम् । एतयोः शोभनं शीलमथो एनयोर्महती कीर्तिः । त्यदामिति किम् ? संज्ञायामेतदं सङ्ग्रहाण, अथो एतदमध्यापय । अवृत्त्यन्त इति किम् ? अथो परमैतं पश्य ।। इदमः || ३४ ॥ त्यदादेरिदमो द्वितीया-टौसि परेऽन्वादेशे एनत् स्यात्, अवृत्त्यन्ते । उद्दिष्टमिदमध्ययनमथो एनदनुजानीत । अनेन रात्रिरधीता अथो एनेनाहरप्यधीतम् । अनयोः शोभनं शीलमथो एनयोर्महती कीर्तिः ॥ अद्वयने || ३५ ॥ त्यदादेरिदमो व्यञ्जनादौ स्यादौ परेऽन्वादेशे अः
-
टाच ओस् च, तस्मिन् वृत्तेरन्तो वृत्त्यन्तः, न वृत्त्यन्तोऽवृत्त्यन्तस्तस्मिन् । अन्वादेशे इति वर्तते । अत्र साक इति, अक्सहितस्याप्येतदोऽत्र प्रयोगे एनदादेश इत्यर्थः । एतेन रात्रिरिति, अत्राविव क्षितकर्मण इधातोर्योगे रात्रिलक्षणस्याप्याधारस्य कालाध्वभावदेशमिति कालस्य कर्मत्वे ततश्चाधीतेत्यत्र कर्मणि क्ते सति कर्मण उक्तत्वाद्रात्रिशब्दात्प्रथमा, अथवा रात्रिसहचरितमध्ययनमप्युपचाराद्रात्रिशब्देनोच्यते, ततः साऽधीतेति । एतदं सङ्ग्रहाणेत्यादिवाक्ये एतच्छन्दस्संज्ञायां वर्तते नातस्त्यदादिरित्यादेशाभावः । परमैतमिति, परमश्चासावेषश्च तमित्यत्रैतच्छब्दस्समासवृत्त्यन्ते वर्ततेऽत एनदादेशाभावः ॥ त्यदामिति नाममात्रनिर्देशेन 'नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणमिति न्यायेन स्त्रीत्वादिविशिष्टानामपि त्यदादीनां ग्रहणात्तत्राप्यादेशो भवति ।। इदमः षष्ठी ॥ एतद इति रहितं सकलं पूर्वसूत्रमनुवर्तते । योगविभाग उत्तरार्थः ॥ अद् प्रथमा, व्यञ्जने ॥ त्यदामिद