________________
प्रथमपादः ]
अवचूरिपरिष्कारसहितायाम् ।
१२३
1
जस्विशेष्यं वाऽऽमन्त्रये ॥ २६ ॥ युष्मदस्मद्भयां पूर्वं जसन्तमामन्त्र्यार्थं विशेष्यवाच्यामन्त्रये पदेऽर्थात्तद्विशेषणे परेऽसदिव वा स्यात् । जिनाः ! शरण्या युष्मान् शरणं प्रपद्ये, जिनाः ! शरण्या ! वः शरणं प्रपद्ये । जिनाः शरण्या अस्मान् रक्षत, जिनाः ! शरण्या ! नो रक्षत । जसिति किम् ? साधो । सुविहित! वोऽथो शरणं प्रपद्ये, साधो ! सुविहित ! नोऽथोरक्ष । विशेष्यमिति किम् ? शरण्याः साधवो युष्मान् ! शरणं प्रपद्ये । आमन्त्र्य इति किम् ? आचार्यां युष्मान् शरण्याः शरणं प्रपद्ये । अर्थात्तद्विशेषणभूत इति किम् ? आचार्या उपाध्याया युष्मान्
1
ण्डलक्षणपादत्वस्य व्याघातात् 'पादाद्यो' रितिसूत्रेण वस्नसादिप्रतिषेधस्याप्रवृत्तिप्रसक्त्या 'पदाद्यग्विभक्त्ये 'ति सूत्रेणात्र वसादेशः प्रसज्येताऽतः पूर्वमित्युक्तम् । असदिवेतीवशब्दोपादानं यस्याऽसद्भाव उक्त न तस्य प्रयोगनिवृत्तिस्तेन विवक्षिता, अपितु तन्निमित्तककार्यप्रतिषेध वेष्ट इति सूचयितुम्, न च लोपपदमनुक्त्वाऽसदितिगुरूचारणादेवातिदेशप्रात्या तेन च प्रयोगानिवृत्तेः सिद्धौ व्यर्थमिवग्रहणमिति वाच्यम्, आतिदेशिकेन विरुद्धस्य स्वाश्रयकार्यस्य बाधनार्थत्वा दिवशब्दोपादानात्, इवशब्दोपादानसामर्थ्याद्विरुद्धमपि स्वाश्रयं कार्यं एकान्तरतादि न निवर्त्यत इति भावः । जस् च तद् विशेष्यं च, वा, आमन्त्रये ॥ पूर्वसूत्रमनुवर्तते । जसः विशेषणत्वात्तदन्तविधिः । आमन्त्र्ये इति विशेषणभूतस्याssमन्त्र्यस्य बोधकम् । जिना: शरण्या युष्मान् शरणं प्रपद्ये, अत्र जिना इति विशेष्यमामन्त्रयपदम् तद्विशेषणभूतमामन्त्र्यन शरण्या इति । पूर्वेण नित्यमसद्भावे प्राप्तेऽनेन विकल्प्यते । साधो ! सुविहित ! इति वाक्ये ' असदिवे 'ति द्वयोरसत्त्वे प्राप्ते नान्यदित्यनेन साधो इत्यस्यासत्त्वाभावः, नित्यमन्वादेश ' इत्यनेन वस्नसौ । ' शरण्याः साधव ' इत्यत्र द्वयोरप्यामन्त्र्ययो ' रसदिवे 'त्यसद्भावः ॥
"