________________
१२४ सिद्धहेमलघुवृत्तौ । द्वितीयाध्यायस्य शरणं प्रपद्ये ॥ नान्यत् ।। २७॥ युष्मदस्मद्भयां पूर्व जसन्तादन्यदामन्त्र्यं विशेष्यमामध्ये तद्विशेषणे परेऽसदिव न स्यात् । साधो सुविहित ! त्वां शरणं प्रपद्ये । साधो सुविहित ! मा रक्ष ।। पादाद्योः ॥२८॥ नियतपरिमाणमात्राक्षरपिण्डः पादः। पदात्परयोः पादस्यादिस्थयोयुष्मदस्मदोर्वस्नसादिर्न स्यात् । “ वीरो विश्वेश्वरो देवो युष्माकं कुलदेवता । स एव नाथो भगवानस्माकं पापनाशनः " ॥ १ ॥ पादाद्योरिति किम् ? " पान्तु वो देशनाकाले जैनेन्द्रा दशनांशवः । भवकूपपतज्जन्तुजातोद्धरणरज्जवः" ॥२॥ चाहहवैवयोगे ॥ २९ ।। एभिर्योगे पदात्परयोर्युष्मदस्मदोर्वस्नसादिर्न स्यात् । ज्ञानं युष्मांश्च रक्षतु । एवं अह ह वा एवैरप्युदाहार्यम् । योग इति किम् ? ज्ञानञ्च शीलञ्च ते स्वम् ।। दृश्यर्थैश्चिन्तायाम् ॥ ३० ॥ दृशिना समानार्थश्चिन्ताथैर्धातुभिर्योगे युष्मदस्मदोर्वस्नसादिर्न स्यात् । जनो युष्मान् सन्दृश्यान, अन्यत् ॥ जस्विशेष्यम् , आमन्त्र्येऽसदिव, पूर्वमित्येतेषामनुवृ. त्तिः । जसन्तविशेष्यादन्यत्वं बोध्यम् ।। पादस्यादी पादादी तयोः । पदादिति, वस्नसादयो निखिला आदेशा नेति च सम्बध्यन्ते । एवमग्रेऽपि । नियतेति, यत्र मात्रा अक्षराणि च नियतपरिमाणानि भवन्ति तादृशमात्राक्षरपिण्डविशेषः पाद उच्यन इत्यर्थः । पादाद्योरितिद्विवचनं युष्मदस्मदोर्विशेषणाभिप्रायेण । एकवचनान्ततया निदेशे आमन्त्र्यविशेषणतासंशयप्रसङ्गः॥ चश्चाहश्च हश्च वाश्चैवश्च तैर्योगस्तस्मिन् ॥ ज्ञानश्चेति वाक्ये चेन योगः ज्ञानशीलशब्दयोरेव न युष्मदः, अतोऽत्राऽऽदेशः स्यादेव । चाहहवैरित्येव सिद्धौ योगग्रहणं चादेः साक्षायुष्मदस्मद्यां योग एव निषेधप्रतिपत्त्यर्थम् , न तु व्यवधानेन ॥ दृशेरों दर्शनमालोचनं येषाम् , दृशिरों येषामिति वा दृश्यर्थस्तैश्चिन्तायाम् । जनो वो मन्यत इति, नाऽयं दृश्यर्थः । दृश्यर्थो हि चाक्षुषं ज्ञानमतोऽत्र न निषेधः ॥ नित्यम् , अनु पश्चा