SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ १२२ सिद्धहेमलघुवृत्तौ द्वितीयाध्यायस्य एकवाक्ये । धर्मो वां पातु, धर्मो युवां पातु; धर्मो नौ पातु, धर्म आवां पातु, एवं चतुर्थीषष्ठीभ्यामपि ॥ डेङसा तेमे ॥२३॥डस्भ्यां सह पदात्परयोर्युष्मदस्मदोर्यथासङ्ख्यं ते मे इत्येतौ वा स्याताम् , एकवाक्ये । धर्मस्ते दीयते, धर्मस्तुभ्यं दीयते; धर्मो मे दीयते, धर्मो मह्यं दीयते; धर्मस्ते स्वम् , धर्मस्तव स्वम् ; धर्मो मे स्वम् , धर्मो मम खम् ।। अमा त्वामा ॥२४॥ अमा सह पदात्परयोर्युष्मदस्मदोयथासङ्ख्यं त्वामा इत्येतौ वा स्याताम् , एकवाक्ये । धर्मस्त्वा पातु, धर्मास्त्वां पातु; धर्मो मा पातु, धर्मो मां पातु ।। असदिवामन्यं पूर्वम् ॥२५॥ आमन्व्यार्थं पदं युष्मदस्मद्भयां पूर्वमसदिव स्यात् । जना ! युष्मान् पातु धर्मः, साधू ! युवां पातु धर्मः, साधो ! त्वां पातु तपः । पूर्वमिति किम् ? मयैतत्सर्वमाख्यातं युष्माकं मुनिपुङ्गवाः ! ॥ ङस् च, ते च मे च तेमे लुप्त द्विवचनान्तं पदम्। पदादेकवाक्य इत्यनुव. तते । एवमग्रिमसूत्रेऽपि । डेङसेत्येकवचनं स्थानिभ्यामादेशाभ्याश्च यथासङ्घयनिवृत्त्यर्थम् ॥ अमा तृतीया, त्वा च मा च त्वामा । अम् पदेन द्वितीयैकवचनस्याम एव ग्रहणम्, न तु 'अतः स्यमोऽम्' इति विहितस्याव्ययीभावसम्बन्धिनो वा । युष्मदस्मद्भयां द्वितीयकवचनभिन्नस्यासम्भवात् । न सत् असत् , इव, आमन्त्र्यते यत्तदामन्यम् , पूर्वम् ॥ आमन्त्र्ये पुरुषाद्यर्थं कार्यासम्भवात्तद्वाचकं पदमत्रामन्त्र्यपदेन विवक्षितमत एवाऽऽमन्त्र्यार्थ पदमित्युक्तम् । जना ! युष्मापातु धर्मः, अत्र युष्मानिति पदात्परत्वेऽपि युग्विभक्तिमत्त्वेऽपि बहुत्वविषयकत्वेऽप्यनेन सूत्रेण जना इत्यामन्त्र्यपदस्याविद्यमानत्वा. रोपात्पदात्परत्वासम्भवेन न वसादेशः । एवमग्रेऽपि । मयैतत्सर्वमाख्यातं युष्माकं मुनिपुङ्गवाः ! । अत्र मुनिपुङ्गवा इत्यामन्त्र्या) पदम् , सूत्रे पूर्वमित्यस्यानुपादाने परपदस्यासद्भावः प्रसज्यते, तथा च मुनिपुङ्गवा इत्यस्यासद्भावेन युष्माकं मुनिपुङ्गवा इति नियताक्षरपि
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy