SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ प्रथमपादः ] अवचूरिपरिष्कारसहितायाम् । १२१ युष्माकम् , अस्माकम् ; अतियुवाकम् , अत्यावाकम् । युष्मानस्मान्वाऽऽचक्षाणानां युष्माकम् , अस्माकम् ॥ पदाद्युग्विभत्त्यैकवाक्ये वस्नसौ बहुत्वे ॥ २१ ।। बहुत्वविषयया समविभक्त्या सह पदात्परयोर्युष्मदस्मदोर्यथासङ्ख्यं वस्नसौ वा स्याताम् , तच्चेत्पदं युष्मदस्मदी चैकस्मिन् वाक्ये स्तः। अन्वादेशे नित्यं विधानादिह विकल्पः । एवमुत्तरसूत्रत्रयेऽपि । धर्मो वो रक्षतु, धर्मो नो रक्षतु, धर्मो युष्मान् रक्षतु, धर्मोऽस्मान् रक्षतु । एवं चतुर्थीषष्ठीभ्यामपि । पदादिति किम् ? युष्मान् पातु । युग्विभक्त्येति किम् ? तीर्थे यूयं यात । एकवाक्य इति किम् ? अतियुष्मान् पश्य ! ओदनं पचत ! युष्माकं भविष्यति ॥ द्वित्वे वाम्नौ ।। २२ ॥ पदात्परयोर्युष्मदस्मदोर्द्वित्वविषयया युग्विभक्त्या सह यथासङ्ख्यं वाम् नौ इत्येतौ वा स्याताम् , विभक्तिश्च तया, एकं च तद्वाकयं तस्मिन् , वस्च नस्च, बहुत्वे । युष्मदस्मदोरित्यनुवर्तते । बहुत्व इति विषयसप्तमी युग्विभक्त त्यस्य विशेषणम् । युग्विभक्तिरविषमविभक्तिर्द्वितीयाचतुर्थीषष्ठीरूपा । निमित्तकार्यिणोरेकवाक्यघटकत्वमाविष्करोति तच्चेत्पदमिति । अव्ययकारकविशेषणविशिष्टमाख्यातमत्रैकवाक्यं ग्राह्यम् । नित्यमन्वादेश इति सूत्रेणाग्रे वस्नसादीनां नित्यत्वविधानादत्र वसादयो विकल्पेन बोध्या इत्येतमर्थ सूचयति-अन्वादेश इति । धर्मो वो रक्षतु, अत्र द्वितीयाविभक्तिसहितस्य युष्मदो वसादेशः समविभक्त्या सहेत्युक्तत्वात् , एवमप्रेऽपि । वाक्यग्रहणादेकपदेऽतियुष्मान्पश्येत्यादौ न वसादेशः, वाक्यस्यैकत्वेन विशेषणाच्च ओदनं पचत, युष्माकं भविष्यतीत्यादौ वसादेशव्यावृत्तिः, तिबन्तद्वययोगेनैकवाक्यत्वविरहात् , एतदेवाहेकवाक्य इति किमिति ।। द्वयोर्भावो द्वित्वं तस्मिन् विषयसप्तमी, द्वयोरिति विभक्तिविशेषणं योग्यत्वादत एव द्वित्वविषयया युग्विभक्त्येत्युक्तम् । वाम् च नौ च वाम्नौ ।। पदाधुग्विभक्त्यैकवाक्य इत्यनुवर्तते ।। ङे च
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy