SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ १२० सिद्धहेमलघुवृत्तौ . [ द्वितीयाध्यास्य युष्मान् , अस्मान्। प्रियत्वान् , प्रियमान् ॥ अभ्यं भ्यसः॥१८॥ युष्मदस्मद्भयां परस्य चतुर्थीभ्यसोऽभ्यं स्यात् । युष्मभ्यम् , अस्मभ्यम्। अतियुवभ्यम् , अत्यावभ्यम् ॥ उसेश्चाद् ॥ १९॥ युष्मदस्मद्भयां परस्य डसेः पञ्चमीभ्यसश्च अदिति स्यात् । त्वद् , मद्। अतियुवद् , अत्यावद् । युष्मद् , अस्मद् । अतित्वद् , अतिमद् ॥ आम आकम् ॥ २०॥ युष्मदस्मद्भयां परस्य आम आकं स्यात् । णार्थः । युष्मद्-शसित्यत्र शेषे लुगित्यपेक्षया नित्यत्वादनेन सूत्रेण ' प्रत्ययस्ये 'ति परिभाषया सकलस्य शसो नादेशे, ' युष्मदस्मदो'रित्यात्वे दीर्घ युष्मानिति भवति । ननु तथापि युष्मद्शसित्यत्र ‘शेषे लुगि' त्यन्त्यलुकि ' शसोऽतासश्चे 'ति युष्मानिति रूपं भवत्यतः किमर्थमिदं सूत्रमिति चेन्न, युष्मदस्मदोरलिङ्गत्वेन पुंस्त्वाभावतो नकारासम्भवात् ॥ अभ्यम् , भ्यसः षष्ठी ॥ प्रथमोपस्थितत्वाद. ग्रिमसूत्रे पञ्चमीभ्यसः कार्यान्तरविधानाच्चाऽत्र चतुर्थीभ्यस एव ग्रहणम् । अभ्यमित्यत्राकारो व्यञ्जनादित्वव्यावर्त्तनार्थः । युवा युष्मा. न्वाऽऽचक्षाणेभ्य इति विग्रहे णिचि क्विपि निष्पन्नयुष्मशब्दात् चतुर्थीबहुवचने युषभ्यं युष्मभ्यमिति रूपसिद्भस्तत्राऽकारस्य श्रूय. माणत्वान्नाकारस्य 'अप्रयोगीदिति निवृत्तिः । युवामावाम् वाऽतिक्रान्तेभ्य इत्यतियुवभ्यम् , अत्यावभ्यम् ॥ उसेः षष्ठी, च, अद् ॥ चकारेण भ्यसोऽनुकर्षः, स च सिसाहचर्यात् पञ्चमीविभक्तिः ग्राह्यः। अत्रापि अदित्यत्राऽकारः आत्वबाधनार्थः, युष्मद् युषद् इत्यादौ श्रूयमाणत्वाच ' अप्रयोगी दि 'ति नाऽकारनिवृत्तिः । आमः षष्ठी, आकम् प्रथमा ॥ अत्राप्याकारः युष्माकं युषाकं, अस्माकं असाकं, इत्यादौ श्रूयमाणार्थः, अन्यथा कंमात्रविधानेनापि आत्वेन युष्माकमित्यादिरूपसिद्धराकमिति विधानं व्यर्थं स्यात् ।। पदात् , युज्यते इति युग, विभज्यते प्रकटीक्रियतेऽर्थोऽनेनेति विभक्तिः, युग चासौ
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy