SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ प्रथमपादः ] अवचूरिपरिष्कारसहितायाम् । ११९ प्रियवयम् । प्राक्चाक इत्येव ? यूयकम् , वयकम् ॥ तुभ्यं मह्यं ङया ॥ १४ ॥ ङया सह युष्मदस्मदोर्यथासङ्ख्यं तुभ्यंमह्यमौ स्याताम् । तुभ्यम् , मह्यम् । प्रियतुभ्यम् , प्रियमह्यम् । प्राक्चाक इत्येव ? तुभ्यकम् , मह्यकम् ॥ तवमम डसा ॥ १५ ॥ ङसा सह युष्म. दस्मदोर्यथासङ्ख्यं तवममौ स्याताम् । तव, मम । प्रियतव, प्रियमम । प्राक्चाक इत्येव ? तवक, ममक ॥ अमौ मः ॥ १६ ॥ युष्मदस्मद्भयां परयोरम् औ इत्येतयोर्म इति स्यात् । त्वाम् , माम्। अतित्वाम् , अतिमाम् । युवाम् , आवाम् । अतियुवाम् , अत्यावाम् ॥ शसो नः॥ १७ ॥ युष्मदस्मद्भयां परस्य शसो न इति स्यात् । तृतीया ॥ प्राक्चाकः इति वर्तते। प्रियस्त्वम् , प्रियौ युवाम् , प्रिया यूयं वा येषान्ते प्रिययूयम् ॥ एकत्व द्वित्वयोः युष्मदस्मदोर्वर्तमानत्वात् 'त्वमौ प्रत्ययोत्तरपदे चेति ' मन्तस्य युवावाविति च त्वमाद्यादेशानन्यत्र सावकाशान् बाधित्वा यूयं वयमित्यत्र सावकाशौ यूयंवयमादेशौ पर. त्वादुभयप्राप्तौ सत्यामपि भवतः ॥ तुभ्यं च मह्यं च तुभ्यंमह्यम् , ङया तृतीया । प्राक्चाक इति वर्तते । प्रियस्त्वम् , प्रियौ युवाम् , प्रियाः यूयम् , यस्य सः प्रियत्वम , तस्मै प्रियतुभ्यम् । एवं प्रियमह्यम् ॥ तव च मम च तवमम, ङसा तृतीया ॥ प्राक्चाक इति सम्बध्यते । त्वां युवां युष्मान्वाऽतिक्रान्तोऽसौ तस्य ॥ औश्च औश्च आवौ, 'स्यादावसयेय' इत्येक शेषः, अम् च आवौ च अमौ तस्य, लुप्तषष्ठयेकवचना. न्तं पदम् , मः प्रथमा । विभक्तिविपरिणामेन युष्मदस्मदोः सम्बन्धः, एवमग्रेऽपि । म इत्यत्राकार उच्चारणार्थः । नन्वत्र सूत्रेऽम्ग्रहणं किमर्थम् , युष्मद्-अम् इति स्थिते त्वादेशे, ' शेषे लुगि 'ति दलुकि, 'समानादमोऽत' इत्यमोऽस्य लुकि ' युष्मदस्मदो' रित्यात्वे च त्वामिति सिद्धेः, मैवम् , अकारलुगो युष्मदस्मदोरित्यात्वापेक्षया बहिरङ्गत्वेनासिद्धत्वात् ॥ शसः षष्ठी, नः प्रथमा । नकारेऽकार उच्चार
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy