SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ ११८ सिद्धहेमलघुवृत्तौ द्वितीयाध्यायस्य चेति किम् ? अधियुष्मद् , अध्यस्मद् । एकस्मिन्निति किम् ! युष्माकम् , अस्माकम् ॥ त्वमहं सिना प्राक्चाकः ॥ १२॥ सिना सह युष्मदस्मदोर्यथासङ्ख्यं त्वमहमौ स्याताम् , तौ चाक्प्रसङ्गेऽकः प्रागेव । त्वम् , अहम् । अतित्वम्, अत्यहम् । प्राक्चाक इति किम् ? त्वकम् , अहकम् ॥ ययंवयं जसा ॥ १३ ॥ जसा सह युष्मदस्मदोर्यथासङ्ख्यं यूयंवयमौ स्याताम् । यूयम् , वयम् । प्रिययूयम् , विज्ञायते' इति न्यायस्य 'लुर्य' इवल्लेनत् इति प्रतिषेधात् स्यादेरभाव इति वाच्यम् । प्रकृतिप्रत्ययाद्यपेक्षत्वेन ' ऐकार्य 'इति लुपो बहिरङ्गत्वेन विभक्तिमात्रापेक्षत्वमादेशयोरेव प्रवृत्तेरिति चेन, इदमेव हि प्रत्ययोत्तरपदग्रहणं 'लुबन्तरङ्गेभ्योऽपि बलवती'ति न्यायं ज्ञापयति । त्वयीति अधियुष्मदित्यव्ययीभावे विभक्तेलपि न त्वमा देवा, प्रत्ययोत्तरपदत्वाभावात्। त्वं चाहं च त्वमहम् , सिना तृतीया, प्राक्, च, अकः पञ्चमी ॥ त्वां युवां युष्मान्वा, मां आवां अस्मान् वाऽतिक्रा. न्तोऽतित्वमत्यहम् । कुत्सितोऽल्पोऽज्ञातो वा त्वमहं त्वकमहकम् । 'त्यादिसर्वादेः स्वरेष्वन्त्यात् पूर्वोऽणि ' त्यनेन सकारादिस्यादिपरस्वादन्त्यस्वरात्पूर्वे अकि कृते युष्मकद् सि, अस्मकद् सीति स्थिते प्राक्चाक इत्यनुक्तौ 'तन्मध्यपतितस्तद्हणेन गृह्यत' इति न्यायेनाक्सहितस्यैव त्वमहमादेशे त्वकमहकमित्यक्शवणं न स्यादतः प्राक्चाकं इत्युक्तम् , तथा च पूर्वं त्वमहमादेशे सति पश्चादकि त्वकमहकमिति रूपं सिद्ध्यति । प्राक्चाक इत्यनेन च ' तन्मध्यपतित ' इति न्यायो ज्ञाप्यते । एतन्न्यायेनाक्सहितस्याऽऽदेशः स्यादिति शङ्कया ह्यश्रवणार्थं प्राक्चाक इति प्रोक्तम् । तथा त्वमहमित्यत्र प्रकृतिमात्राऽऽदे. शत्वेनान्तरङ्गत्वा · त्वमौप्रत्ययोत्तरपद' इति प्रथमं त्वमादेशे कृते सूत्रमिदं प्रवृत्त्यवकाशाभावाद्व्यर्थं सत् ज्ञापयति बहिरङ्गमपि 'अन्तरगाच्चानवकाशं बलवदिति न्यायम्।। यूयं च वयं च यूयंवयम्, जसा
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy