SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ सिद्धहेमलघुवृत्तौ द्वितीयाध्यायस्य स्य ऋतः स्वरादौ स्यादौ परे रः स्यात् । अनि, नविषयादन्यत्र । तिस्रः, चतस्रः, प्रियतिस्रौ, प्रियचतस्रौ । स्वर इति किम् ? तिसृभिः, चतसृभिः । अनीति किम् ? तिसृणाम् , चतसृणाम् ॥जराया जरस्वा ॥ ३ ।। स्वरादौ स्यादौ परे जराया जरस्वा स्यात् । जरसौ, जरसः। जरे, जराः । अतिजरसौ, अतिजरौ । अतिजरसम् , अतिजरं कुलम् ॥ अपोऽढ़े ॥ ४॥ भादौ स्यादौ परे अपोऽत् स्यात् । अद्भिः, इत्यनुवृत्ततिसृचतसृशब्दयोः षष्ठ्यन्तत्वलाभार्थम् । अनीति नकारः प्रत्ययरूप आगमरूपो वा ग्राह्यः । तिसृणां चतसृणामित्यादौ आमि परे परत्वात्तिसूचतस्रादेशे सति नामादेशः, ' दीर्घो नामी 'त्यत्र तिसृचतसृवर्जनान्न दीर्घः, अनीत्यकृतेऽत्रापि ऋतो ररुः स्यात् । एतावन्मात्रार्थत्वेऽनामीत्येवासन्दिग्धार्थमुच्येत, तथाऽनुत्तवा साधारणशब्देन नकारविषयवर्जनं कृतं तेन नागमस्यापि वर्जनं वेदितव्यम् , न च स्वरादौ स्यादौ परे 'आदेशादागमो बलवानिति न्यायेन पूर्व नागमे कृते नागमव्यवधानेन तिस्राद्यादेशस्यैवाभावान्नागमे परे तिस्रादे ऋकारस्य रत्वमेव न प्राप्नोतीति वाच्यम् , अनयैव नकारविषयवर्जनोक्त्या 'आगमात्सर्वादेशो बलवानिति न्यायस्य ज्ञापनात् । तेन च प्रियतिसृणः कुलादित्यादौ प्रथमं तिस्रादेशे ततो नागमे रत्वा भावायानीत्युक्तम् ॥ जरायाः षष्ठी, जरस्, वा ॥ स्यादौ, स्वरे, इत्यनुवर्तते । ' अनेकवर्णः सर्वस्य ' सोऽपि निर्दिश्यमानस्यैव, तेनातिजरसावित्यादौ जराशब्दस्यैव जरस् । यद्यप्यत्र जराशब्दो नास्ति तथाप्येकदेशविकृतस्यानन्यत्वाजरशब्दस्य जरसादेशः । नपुंसके . स्यमोरस्कृते जरसादेशस्तेनातिजरसं अतिजरम् । स्वसम्बन्धिन्यन्यसम्बन्धिनि च स्यादावयमादेश इति सूचनाय समस्तव्यस्तोदाहर. णानि । अपः षष्ठी, अद् प्रथमा, भे सप्तमी ॥ स्यादाविति वर्तते । शोभना आपो ययोस्ताभ्यामिति विग्रहे ' पूजास्वतेः प्राक्टात् ' इति
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy