________________
प्रथमपादः] अवचूरिपरिष्कारसहितायाम् । ११५ स्वद्भयाम् । भ इति किम् ? अप्सु ॥ आ रायो व्यञ्जने ॥५॥ व्यञ्जनादौ स्यादौ परे रैशब्दस्य आः स्यात् । राः, रासु, अतिराभ्यां कुलाभ्याम् । व्यञ्जन इति किम् ? रायः ॥ युष्मदस्मदोः ॥६॥ व्यञ्जनादौ स्यादौ परे युष्मदस्मदोराः स्यात् । त्वां माम्, अतित्वां अतिमाम् , युष्मासु अस्मासु ॥ टायोसि यः ॥७॥ टाड्योस्सु परेषु युष्मदस्मदोर्यः स्यात् । त्वया मया, अतियुवया समासान्तप्रतिषेधे भ्यामि तत्सम्बन्धिविज्ञानाभावेन चानेन सूत्रेण निर्दिश्यमानस्याप एवादादेशः । आः प्रथमा, रायः षष्ठी, व्यञ्जने ॥ स्यादाविति वर्तते, एवमग्रिमसूत्रेष्वपि । 'षष्ठयाऽन्त्यस्य' अतिराभ्यामित्यादा ' वेकदेशविकृतस्यानन्यत्वा' दतिरीति प्रकृतावपि रैशब्दसद्भावेन 'षष्ठ्यान्त्यस्येति परिभाषया इकारस्याऽऽकारः । स्भीत्येव सिद्धे व्यञ्जनग्रहणमुत्तरार्थम् । आमि तु अतिरीणाम् , रायमतिक्रान्तानि यानि तेषामिति विग्रहः, 'क्लीबे' इति इस्वः, ततो नाम् , सन्निपातपरिभाषया च नावास्य सूत्रस्य प्रवृत्तिः । तत्परिभाषाया अनित्यत्वाच्च ‘दीनामी ' ति दीर्घः, न्यायानां स्थविरयष्टिन्यायेन प्रवृत्तेः । उत्तरार्थव्यञ्जनग्रहणस्यात्रैव कृतत्वात् अतिराणामिति केषाश्चिदिष्टं रूपं स्वमतेऽपि सम्मतत्वख्यापनायेहार्थमपि, अत्र पक्षे सन्निपातपरिभाषाया अनित्यत्वाश्रयेणाऽऽकारो विधेयः । युष्मच्च अस्मच्च युष्मदस्मदो तयोः । आः, व्यञ्जने, इति सम्बध्येते । युष्मद् अम् , ' अमो म' इत्यमो मकृते, 'त्वमौ प्रत्ययोत्तरपदे ' इति मन्तभागस्य त्वाऽऽदेशे त्व अद् म् इति जाते, 'लुगस्ये 'त्यकारलोपेऽनेन सूत्रेण दकारस्याऽऽत्वे दीर्घ च त्वाम् , एवं मामित्याद्यपि । नामाधिकारात्तदन्तप्रतिपत्तौ त्वामतिक्रान्तोऽतित्वम्, तम् ।। टा च ङि च ओसौ च तस्मिन् यः प्रथमा । युष्मदस्मदोरित्यनुवर्तते । त्वद् टा, इति जातेऽनेन. दस्य यकारः । त्वामतिक्रान्तेनेति विग्रहेऽप्यतित्वया ।