________________
११०
सिद्ध मलघुवृत्तौ
[ प्रथमाध्यायस्य
शिस्योरेव परयोर्दीर्घः स्यात् । दण्डीनि, स्रग्वीणि, दण्डी, स्रग्वी, भ्रूणहानि, भ्रूणहा बहुपूषाणि, पूषा, स्वर्यमाणि, अर्यमा । शिस्योरेवेति किम् ? दण्डिनौ, वृत्रहणौ, पूषणौ, अर्यमणौ ॥ अपः ॥ ८८ ॥ अपः स्वरस्य शेषे घुटि परे दीर्घः स्यात् । आपः, स्वापौ ॥ नि वा || ८९ || अपः स्वरस्य नागमे सति घुटि परे दीर्घो वा स्यात् ।
9
कत्वादिनः, विन एव तत्र सार्थकत्वात्तथापि ' अनिनस्मन् ग्रहणान्यर्थवता चानर्थकेन च तदन्तविधि प्रयोजयन्ती 'ति न्यायान्निरर्थ - कोपीन शब्दो गृह्यते, तेन स्रग्वीत्यादावप्यनेन दीर्घः ॥ अपः षष्ठी, सूत्रत्वादेकवचनम् || शेषे घुटि दीर्घ इत्यनुवर्तन्ते । शोभना आपो ययोस्तौ स्वापौ ॥ नि सप्तमी, वा ॥ शोभना आपो येषु तडागेषु तानि स्वाम्पि 'धुटां प्राकू "म्नां धुट् ' नस्य मः, समासान्तविधेरनित्यत्वात् । बह्वप आपो येषु तडागेष्विति विग्रहेऽप्यनेन वा दीर्घः ॥ भूरादिर्यस्य स भ्वादि:, न भ्वादि:, तस्य, अतुश्च अस् च तस्य सौ ॥ शेषे दीर्घ इत्यनुवर्तेते । भवतीति भवान्, भातेर्डव नोन्त: ' पदस्य ' तलोपः । नागमे सत्यपि ' आगमोऽनुपघाती 'ति न्यायेनानेनात्वन्तलक्षणो दीर्घः । यवा विद्यन्तेऽस्य मतुप्रत्ययः ' नोर्म्यादिभ्यो' मस्य वः, यद्यप्यतुरत्र नाऽर्थवानिति तदन्तविधिर्न भवति, तथाऽपि मत्वादीनामुकारानुबन्धकरणादनर्थकस्याप्यतोस्तदन्तविधौ प्रयोजकत्वम्, उकारानुबन्धस्य प्रयोजनान्तराभावात् । अप्सरस् अनेन दीर्घः, गोमन्तमिच्छति क्यन् किप्, 'अतः ' अलोपः ' योऽशीति, यलुक् 'ऋदुदित' नोन्तः भ्वादेरेव वर्जनादनेन दीर्घः । एवं स्थूलशिरा इत्यत्रापि, पिण्डं प्रसत इति पिण्डमः, अत्र पिण्ड ग्रस् स इति स्थितेऽसो भ्वादिधात्ववयवत्वान्नानेन दीर्घः । न चार्थवद्वहणे इति परिभाषया सार्थकस्यैवाऽसो ग्रहणेनाऽत्र धात्ववयवस्याऽसो निरर्थकत्वादेव दीर्घाप्राप्तेरभ्वादेरिति वचनं व्यर्थमिति