________________
चतुर्थपादः ] अवरिपरिष्कारसहितायाम् पिता, कर्ता, उशना, पुरुदंशा, अनेहा सखा ॥ नि दीर्घः ॥८५।। शेषे घुटि परे यो नस्तस्मिन् परे स्वरस्य दीर्घः स्यात् । राजा, राजानौ, राजानः, राजानम् । वनानि, कर्तृणि । शेष इत्येव ? हे राजन् ! ॥ स्महतोः ॥ ८६ ॥ सन्तस्य महतश्च स्वरस्य शेषे घुटि परे दीर्घः स्यात् । श्रेयान्, श्रेयांसौ। महान् , महान्तौ ॥ इन्हनपूषार्यम्णः शिस्योः ॥ ८७॥ इन्नन्तस्य हनादेश्च स्वरस्य डा। सख्युरित इति विशेषणात् स्त्रीप्रत्ययान्ताक्विप्प्रत्ययान्ताच्च सखिशब्दात् परस्य सेर्डा न भवति ॥ नि सप्तमी, दीर्घः ॥ शेषे घुटीति सम्बध्यते । राजन् शब्दात् सिविभक्तौ परत्वात् 'नि दीर्घ' इति दीर्घ 'दीर्घ ङयाबि' ति सिलोपे ' नाम्नो' नलोपे च राजा, स्यादिविधौ कर्त्तव्ये नलोपरस्यासत्त्वात् प्रथमं लुग् न । हे राजनित्यत्र 'नामन्ये 'ति नस्य लुग्न ॥ नकारेण युक्तः स् न्स् , न्स च महच्च तयोः ॥ दीर्घःशेषे घुटीत्यनुवर्तन्ते । मह दित्यौणादिको ग्राह्यः, न तु शत्रन्तस्तस्य लाक्षणिकत्वात् , ' लक्षणप्रतिपदोक्तयोरि 'ति न्यायात् । श्रेयानित्यादौ 'ऋदुदितः ' इत्यनेन नोन्तः, 'पदस्ये 'ति लोपस्यासिद्धत्वान्नलोपो न ॥ इन् च हन् च पूषा च अर्यमा तस्य, शिश्च सिश्च शिसी तयोः । इनिति नाम्नो विशेषणम् । दीर्घः इत्यनुवर्तते । ‘नि दीर्घ ' इति दीर्घ सिद्धे । सिद्धे सत्यारम्भो नियमार्थ' इति न्यायेनानेनैव सूत्रेण ज्ञापितेन नियमार्थमिदं सूत्रम् , अत एवोक्तं शिस्योरेव परयोर्दीर्घः स्यादिति । तेन दण्डिनावित्यादौ ‘नि दीर्घ ' इत्यनेनापि न दीर्घः। यद्ययं न्यायो न भवेत्तर्हि सूत्रमिदं विधायकं भवेत् , तथा चैतत्सूत्रविहितकार्यस्य ‘नि दीर्घ' इत्यनेनैव सिद्ध्या सूत्रमिदं व्यर्थं स्यात् , यच्चारब्धं तदेतन्यायेन नियमसूत्रमिदं भविष्यतीति मत्वा । यद्यप्यत्र ‘अर्थवद्हणे नानर्थकस्य ग्रहणमिति न्यायात् सार्थकस्येन्प्रत्ययान्तस्यैव दीर्घः, न तु स्रग्वीत्यादौ निरर्थ