SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ १०६ सिद्धहेमलघुवृत्ती [प्रथमाध्यायस्य मन्थाः, ! । ऋभुक्षाः, हे ऋभुक्षाः !। नान्तनिर्देशादिह न स्यात्पन्थानमैच्छत् पथीः ॥ एः ॥ ७७॥ पथ्यादीनां नान्तानामितो घुटि परे आः स्यात् । पन्थाः पन्थानौ, पन्थानः, पन्थानम् , सुपन्थानि कुलानि । मन्थाः ऋभुक्षाः नान्तनिर्देशादिह न स्यात् पथ्यौ, पथ्यः॥ थो न्थ् ॥ ७८ ॥ पथिन्मथिनोर्नान्तयोस्थस्य घुटि परे न्थ् स्यात् । तथैवोदाहृतम् ॥ इन् ङीस्वरे लुक् ॥७९॥ पथ्यादीनां नान्तानां पन्थिय इत्येवंप्रकारं रूपमिष्यते ॥ एः । इशब्दस्य षष्टयन्तं रूपम् ॥ आः पथिन्मथिन्ऋभुक्ष इत्यनुवर्तन्ते । शोभनं पन्थाः येषु तानि सुपन्थानि । अत्रापि शेर्घटत्वादाकारादय आदेशाः पूर्ववद्भाव्याः । पथ्यावित्यादौ नान्तपथिशब्दाभावान्नाकारादिकार्यम् । था षष्ठी, न्थ प्रथमा । पथिन्मथिनिति सम्बध्यते, न तु ऋभुक्षिन्नसम्भवात् ॥ इन् ङीश्च स्वरश्च तस्मिन् लुक् ॥ डीसाहचर्यात् स्वरोऽघुद्रूपो ग्राह्यः, स च स्वरः स्याद्यधिकारात् स्यादिसम्बन्ध्येव । स्वरादिस्यादिघुटि तु पथ्यादीनामिनो विशेषविध्याक्रान्तत्वादघुटस्वरे इत्येव निश्चीयते । इन् लुक् इत्यभेदनिर्देशः सर्वादेशार्थः, षष्ठया निर्देशे तु ' षष्ट्यान्त्यस्ये 'ति नकारस्यैव लोप: स्यात् । शोभनः पन्थाः यस्याः सा, ययोस्ते इति वा, विग्रहे व्युत्पत्तिपक्षाश्रयणे सुवादित्वादुणादीनामव्युत्पन्नत्वे इन्नन्तत्वाभावात् कच् न भवति, समासान्तविधे. रनित्यत्वाच्च 'ऋपूरि' त्यपि न भवति नान्तत्वात , स्त्रियां नृत' इति डीः । अत्र ड्या परतः सुपथिन् सम्बन्धिनः इनो लुक् । नपुंसके तु सुपथिन् शब्दादौविभक्तौ — औरीरि 'तीकृते स्याद्यघुट्स्वरपरत्वादिनो लोपः। एवमग्रेऽपि। न विद्यते ऋभुक्षा इन्द्रो यस्याः सा ययोस्ते वा अनृभुक्षी ॥ वा उशनसः षष्ठी नः प्रथमा च आमव्ये सौ ॥ च शब्देन लुकोऽनुकर्षः। ' षष्ठयान्त्यस्ये 'ति परिभाषा प्रवर्तते । उशनस् शब्दात् सम्बोधने सौ ' सर्वविधिभ्यो लोपो
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy