________________
चतुर्थपादः ] अवरिपरिष्कारसहितायाम् । १०५ इति किम् ? चित्रगुः ॥ आ अम्शसोऽता ।। ७५ ॥ ओतोऽम् शसोरता सह आः स्यात् । गाम् , सुगाम् , गाः । द्याम् , अतिद्याम् , द्याः, सुद्याः ॥ पथिन्मथिनृभृक्षः सौ ॥ ७६ ॥ एषां नान्ता. नामन्तस्य सौ परे आः स्यात् । पन्थाः हे पन्थाः !। मन्थाः, हे
पूर्व इस्खे कृते, पश्चाद्धट्योकाराभावान्नौकारः, स्थानिवद्भावोऽप्यत्र न भवति, वर्णविधित्वात् ॥ आः प्रथमा, अम् च शस् च तस्य, अता तृतीया ॥ ओत इति सम्बध्यते । पूजिता गौः सुगौः, तामनेन आः, ‘गोस्तत्पुरुषादि' त्यप्राप्नोति, परन्तु — पूजास्वतेरि' ति निषेधः । द्यामतिक्रान्तो योऽसावतिद्यौः ताम् , शोभना द्यावः सुद्यावः ताः । अत्र गा इत्यादौ ' शसोऽता सश्चे' त्यनेन दीर्घाsभवने, ' आ अम्शसोऽते 'त्यात्वे कृते सति शसोऽकाराभावलक्षणो हेतुर्दश्यते, परन्तु सकारस्य नत्वाभावे न कश्चिद्यत्नो दृश्यते, तेन विज्ञायते, 'सन्नियोगशिष्टानामेकापायेऽन्यतरस्याप्यपाय' इति न्यायस्यास्तित्वम् । यत्र द्वे कार्य सन्नियोगेनोके तत्र कार्यस्यैकस्याभावेऽपरमपि न भवतीति तदर्थस्तेनात्र ' शसोऽता सश्चे 'ति दीर्घाभावे नकारोऽपि न जात इति ॥ पन्थाश्च मन्थाश्च ऋभुक्षाश्च तत्तस्य, सौ, आः इत्यनुवर्तते । 'षष्ठ्यान्त्यस्ये 'त्यन्तस्य आः आदेशः भवति । पथिन्, नस्य आः । एरित्यनेनेकारस्याऽऽकारः, ' समानानामि 'ति दीर्घः, पथा सिति जाते थोन्थित्यनेन न्थादेशे सकारस्य विसर्गे पन्थाः, एवमग्रेऽपि । अत्र नकारस्य सानुनासिकस्य स्थाने निरनुनासिक एव आ भवति, लिलावि 'ति द्विवचनग्रहणाज्ज्ञापकात् । पथीरित्यादौ पन्थानमैश्छदिति विग्रहे क्यनि नकारलोपे क्विपि च दीर्घ पथीशब्दात् सिविभक्तरुत्वे विसर्गे च पथीः भवति, अत्र नान्तः पथिशब्दो नास्ति, तेन नाऽऽकारः । पाणिनीयेऽत्राऽपि पन्थाः पन्थियौ
१४