SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ १०४ सिद्धहेमलधुवृत्तौ [प्रथमाध्यायस्य युजमापन्ना मुनयः ॥ अनडुहः सौ ॥ ७२ ॥अनडुहो धुडन्तस्य धुटः प्राक् सौ परे नोन्तः स्यात् । अनड्वान् , प्रियानड्वान् ॥ पुंसोः पुमन्स् ॥ ७३ ॥ पुंसोः पुमन्स् घुटि स्यात् । पुमान् , पुमांसौ, पुमांसः । प्रियपुमान् , प्रियपुमांसि ॥ ओत औः ।। ७४ ।। ओतो घुटि परे औः स्यात् । गौः, गावौ । द्यौः, द्यावौ । प्रियद्यावौ । ओत श्वयुक्, योजनं युक् ॥ अनडुहः षष्ठी, सौ सप्तमी ॥ अनुवृत्तिः पूर्ववत् । साविति निमित्तविशेषोपादानादधिकारप्राप्तमपि घुटीतिपदं न सम्बध्यते । घुडधिकारात् साविति सेरेव सप्तम्या रूपम् न तु सप्तमीविभक्तरुत्सृष्टानुबन्धस्य सुपः । अनः शकटं वहतीत्यर्थे अनस्पूर्वात् वहधातोः विपि सस्य डत्वे 'यजादिवचेरि 'ति वस्योत्वे अनडुङ् सि, अनेन नोन्तः, 'वाः शेषे' इति डकारोत्तरवयुकारस्य वात्वेऽनड्वान्द , ‘पदस्ये 'ति हलोपेऽनड्वानिति रूपम् । ' स्रंसध्वंस इति सूत्रेण न दकारो नकारविधानसामर्थ्यात् । प्रिया अनडाहो यस्यासौ। एकत्ववृत्तेरनडुहः 'पुमनडुन्नो पयोलक्ष्म्या एकत्वे ' इति स्यादतो बहुत्वेन समासः॥ पुंसोः इति षष्ठी, घुमन्स् ॥ पुंस् शब्दात् सिविभक्तावनेन पुमन्सादेशः, सिलोप: ' ' स्महतोः ' ' पदस्य' सलोपः । प्रियाः पुमांसो येषान्तानि, नपुंसकस्य शिः, ' पुग्नस्' 'स्महतोः, ' ' शिड्हेऽनुस्वारः '। अत्राप्येकत्ववृत्तेः कच् स्यात् , पुंसोरुदित्वात् । प्रियपुंसितरा प्रियपुंस्तरा इत्यादौ ३ः हूस्वपुंवद्धिकल्पाश्च भवन्ति ॥ ओतः षष्ठी, औः प्रथमा | स्याद्याक्षिप्तस्य नाम्नो विशेषणत्वेन तदन्तविधावोकारान्तस्य नाम्नस्तद्विहितघुटि परे ओकारादेशो भवति, यथा गोशब्दात् सिविभक्तौ सेरोदन्तनाम्नो विहितत्वेन तस्मिन्परे गोशब्दघटितौकारस्यौकीरादेशः, एवमग्रेऽपि । प्रिया द्यौर्ययोस्तौ प्रियद्यावी, इत्यत्राऽप्यौविभक्तरोकारान्ताद्विहितत्वादोकारो भवति, ततश्चाऽऽवादेशः । चित्रगुरित्यादौ तु परत्वात्
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy