________________
चतुर्थपादः ]
अवचूरिपरिष्कारसहितायाम् |
१०३
T
अचः || ६९ || अञ्चतेर्धातोर्घुडन्तस्य धुटः प्राक् नोन्तो घुटि स्यात् । प्राङ्, अतिप्राङ्, प्राञ्चौ । प्राञ्चि कुलानि ॥ ऋदुदितः ॥ ७० ॥ ऋदुदितो धुडन्तस्य घुटि परे धुटः प्राक् स्वरात्परो नोन्तः स्यात् । कुर्व्वन्, विद्वान्, गोमान् । घुटीत्येव ? गोमता ॥ युत्रोऽसमासे || ७१ || “युजूंपी योगे" इत्यस्यासमासे धुडन्तस्य धुटः प्राकू नोन्तः स्यात् । युङ्, युञ्जौ । युञ्ज कुलानि । बहुयुङ् । असमास इति किम् ? अश्वयुक् । युन इति किम् ? " युजिंच् समाधौ”,
न्यतयोक्तेः नपुंसकस्येति निवृत्तम् || अचः षष्ठी || घुटामिति वचनविपरिणामेन संम्बध्यते, नोन्तः प्राक् च । प्राञ्चतीति किपू, ' अचोऽनचयामि 'ति नलोप:, ' अप्रयोगीत्, ' अनेन नोन्तः, ' पदस्ये 'ति चलोप:, 'युजच कुचो नो ङ' इति नस्य ङः, प्राञ्चमतिक्रान्तः अतिप्राङ् । अत्र स्याद्याक्षिप्तस्य नाम्नोऽच इति विशेषणात्तदन्त विधिश्च समासेऽपि नागमस्य प्राप्तिर्नागमे तदन्तविधिश्च, ' युत्रोऽसमासे ' इत्यत्रासमासग्रहणाज्ज्ञाप्यते ॥ ऋच्च उच्च ऋदुतौ, तावितौ यस्य स ऋदुदित् तस्य || अनुवृत्तिः पूर्ववत् । करोतीति विग्रहे ' शत्रानशावि 'ति शतृप्रत्यये, कृग्तनादेरि 'त्युप्रत्यये, 'नामिनो गुणः ' इत्यर् कृते, कुरु अत् इति जाते ' अतः शिती 'त्युत्वे, ' इवर्णादे रिति वत्वे कुर्वत् सि इति सञ्जाते ऋदित्वादनेन नागमे । दीर्घङयाबि 'ति सिलोपे ' पदस्ये 'ति तलोपे कुर्वन् । वेत्तीति विद्वान्, कसुरुदित्वादनेन नोन्तः ' न्स्महतोः, ' 'पदस्ये' तिसलोपः । उदितः स्वरान्नोन्त' इत्यत्र धात्वधिकारात् । अत्र चोदित इति पृथगारम्भादभ्वादेरेवोदितो ग्रहणात्, तत्साहचर्यादृदितोऽप्यभ्वादेरेवेति सूत्रमिदं भ्वादिव्युदासार्थं विज्ञेयम् । युज्रः पष्ठी न समासोऽसमासस्तस्मिन् ॥ पूर्ववदनुवृत्तिः । युनक्तीति क्विप् युङ्, ईषद्युङिति ' नाम्नः प्राग्बहुर्वे 'ति पूर्वं बहुप्रत्ययः । अश्वान् युनक्तीत्य
बहुयुङ्,