________________
१०२
सिद्धहेमलघुवृत्ती [ प्रथमाध्यायस्य धुड्भ्य एव प्राग् नोन्तः स्यात् । पयांसि, अतिजरांसि, काष्टतङ्क्षि । स्वरादित्येव ? गोमन्ति ।। लोवा ।। ६७ ।। रलाभ्यां परा या धुट्जातिस्तदन्तस्य नपुंसकस्य शौ परे धुड्भ्य एव प्राक् नोन्तो वा स्यात् । बर्जि, बहूर्जि । सुवलिङ्ग, सुवलिंग । र्ल इति किम् ? काष्टतति । धुटामित्येव ? सुफुल्लि ।। घुटि ॥ ६८॥ निमित्तविशेषोपादानं विना आपादपरिसमाप्तेर्यत्कार्य वक्ष्यते तद् घुटि वेदितव्यम्
तेन काष्ठानि तक्ष्णुवन्तीति विग्रहे काष्टतक्ष् इति क्विपि सिद्धे जस्विभक्तेः ' नपुंसकस्ये 'ति शिकृते काष्ठतक्ष् इ इति जाते क् ष् लक्षणा
कधुट्सद्भावेऽप्यनेन सूत्रेण धुड्भ्यः प्राङ्नाऽऽगमे काष्ठतन् क्ष् इ, इति स्थिते ' म्नांधुड्वर्गेण ' इति नकारस्य डकारे 'ष्टतसि इति सिद्धम् । गावो विद्यन्ते येषु कुलेषु तानि गोमन्ति ' तदस्या ' मत् , 'ऋदुदितः' इत्यनेन नागमे गोमन्त इ इति जाते धुडन्तनपुंसकस्य सद्भावेन पुनरनेन सूत्रेण नोन्तत्वं प्राप्नोति, अतःस्वरादित्युक्तम् । अत्र धुट्तकारो न स्वरात्परः, यश्च स्वरात्परो नकारः स न धुट् इति नानेन नागमः। धुटामिति बहुवचनोपादानात् ' वर्णग्रहणे जाति. ग्रहणमिति न्यायोऽनित्यः, अन्यथा धुडित्येकवचनेनाऽपि बहूनां धुटां लाभसम्भवाद्वहुवचनं व्यर्थं स्यात् ॥ र च ल च ल तस्मात् वा ।। नपुंसकस्य, नोन्तः शौ धुटां प्रागित्यनुवर्तन्ते । ल इति धुटां विशेषणम् । ऊर्जण बलप्राणनयोः । ऊर्जयन्तीति, ' दिद्युद ' विप् , बह्व ऊर्जा येषु कुलेषु तानि, 'नपुंसकस्य,' अनेन जकरात् प्राङ् नोन्तः । सुष्ठु वल्गन्तीति किपि रूपम् । फुल्ल विकसने सुष्टु फुल्ल. न्तीति विपि रूपम् । घुटि सप्तमी। अधिकारसूत्रमिदम् , न तु विधायकम् । विधायकत्वे हि नपुंसकस्य घुटि नोन्तो भवतीति स्यात् , विधानश्चेदमनर्थकं नपुंसके शिमन्तरेणान्यस्य घुटत्वाभावात् , तत्र च 'स्वराच्छावि' त्यादिभिर्नागमस्य विहित्वात् । घुटीति सामा