SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ चतुर्थपादः ] अवचूरिपरिष्कारसहितायाम् । १०१ 1 नपुंसकस्याssवर्जे स्यादौ स्वरे परे नोऽन्तः स्यात् । वारिणी, वारिणः । कर्तृणी, कर्तृणः । प्रियतिसृणः । अनामिति किम् ? वारी - णाम् । स्वर इति किम् ? हे वारे ! स्यादावित्येव : तौम्बुरवं चूर्णम् || स्वराच्छौ ||६५ || शौ परे स्वरान्तान्नपुंसकात्परो नोऽन्तः स्यात् । कुण्डानि । स्वरादिति किम् ? चत्वारि ॥ घुटां प्राक् ॥ ॥ ६६ ॥ स्वरात्परा या घुट्जातिस्तदन्तस्य नपुंसकस्य शौ परे नाऽऽगमस्य प्रियत्रि इत्यस्यैवाङ्गत्वात् तस्मादेव नागमस्य भावात्, तिस्रादेशस्य चाऽवयवभूत त्रिशब्दस्यैव भावादवयवस्यावयवेन व्यवधानात्तिस्रादेशाभावः स्यादिति । वारीणाम्, आमि नागमे सति दीर्घो न स्यादित्याम्वर्जनम् । तुम्बुरुण वृक्षस्य विकारः फलं वा ' प्राण्यौषधिवृक्षेभ्योऽण् ' ' फले ' इत्यण् लोपः । तुम्बुरुणः फलस्य विकारस्तौम्बरवम्, 'विकारे अण्, ' ' वृद्धिः स्वरे ' इत्यादिवृद्धिः । अस्वयंभुवोऽव् ॥ स्वरात्, शौ सप्तमी | विभक्तिविपरिणामेन नपुंसकस्येति नोन्त इति चानुवर्तते । ननु शौ परे इवर्णादेर्नाऽऽगमो - नाम्स्वर इत्यनेन सिद्ध एव, आकारान्तनपुंसकशब्दस्तु नास्त्येव, नपुंसके ह्रस्वविधानात्, तथा च व्याप्यरूपेण सूत्रसम्भवे व्यापकरूपेण तत्करणे प्रयोजनाभावात् ' अतः शौ ' इत्येव कर्तव्यमिति चेत्, सत्यम्, उत्तरार्थं स्वरादित्युक्तम् । कुण्ड जस्, 'नपुंसकस्य शिः अनेन नोन्तः, 'नि दीर्घः ' चतुर् नपुंसकात्परत्वाभावान्न नोन्तः ॥ घुटां षष्ठी, प्राचि देशे इति प्राक् अव्ययम् ॥ नपुंसकस्य नोन्तः स्वराच्छावित्यनुवर्तन्ते । स्वरादिति घुटो विशेषणम्, बुटामिति नपुंसकस्य विशेषणम्, प्राक्त्वञ्च धुडभ्य एव विवक्षितम्, तथा च स्वरात्परेत्यादि । पयस् जस् । अतिक्रान्ता जरा यैस्तानि, अतिजर जस् । 'नपुंसकस्य' जरसादेशः, अनेन नोन्त: । ' स्महत ' दीर्ध:, ' शिड्हेऽनुस्वारः ' घुटामिति बहुवचनमनेकधुट्सद्भावेऽपि नाऽऽगमार्धम, 1 "
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy