________________
१००
सिद्धहेमलघुवृत्ती [प्रथमाध्यायस्य ॥ ६३ ॥ एषां नपुंसकानां नाम्यन्तानामन्तस्य टादौ स्वरे परे अन् स्यात् दध्ना, अतिदध्ना, । अस्मा, अत्यस्थ्ना । सक्थ्ना, अतिसक्थ्ना। अक्ष्णा, अत्यक्ष्णा ॥ अनामस्वरे नोन्तः ।। ६४ ॥ नाम्यन्तस्य
नष्टादौ स्वर इत्यनुवर्तन्ते ॥ अक्ष्ण इति षष्ठी न सम्बन्धे किन्तु शेषे, तेन तत्सम्बन्धिन्यन्यसम्बन्धिनि वा टादौ स्वरे परेऽन् भवति । दधि टा, इत्यत्राऽनेन सूत्रेण दधिशब्दान्तस्येकारस्यानादेशे 'अनोऽस्ये' त्यकारलोपे, दध्नेति रूपम् । दध्यतिक्रान्तस्तेनाऽतिदध्ना, तत्सम्बन्धिविज्ञानाभावादत्राप्यन् । एवमग्रेऽपि । दधिमतिक्रान्ता, तयेति विग्रहेऽनादेशे नान्तत्वात् डीः अतिदन्येति रूपम् , स्त्रियामतिदध्नेत्ये. वेति कौमुदीकारः। दध्ना परमदध्नेत्यादौ विशेषविधानादनादेशः परमपि नागमं बाधते ॥ न आम् , अनाम् चासौ स्वरश्च तस्मिन् , नोन्तः ॥ नामिनः नपुंसकस्येत्यनुवर्तेते स्वरे इत्यस्याप्यनुवृत्तिसम्भवे पुनः स्वरे इति ग्रहणं टादावित्यस्य निवृत्त्यर्थम् । स्यादेरधिकारात् स्यादौ स्वरे परे इत्युक्तम् । नोन्त इत्यत्राऽन्तग्रहणाभावे नस्य प्रत्ययत्वं स्यात् । तथा च सति नकारस्य प्रत्ययस्याऽपि सम्भवात् । 'निदीर्घ' इत्यत्र ' प्रत्ययाप्रत्यययोः प्रत्ययस्यैव ग्रहणमि "ति न्यायेन प्रत्ययस्यैव नकारस्य ग्रहणप्रसङ्गेन राजानमित्यादौ दीर्घो न स्यात् , किन्तु वनानीत्यादावेव स्यादतोऽन्तग्रहणं कृतम् । वारि औ, अत्र ' औरीः अनेन नोन्तः वारिन् , ' रषवर्णादि 'ति णत्वम् वारिणी । प्रियाः तिस्रो यस्य तस्येति विग्रहे, प्रिया जस् त्रिजस् इति स्थिते विभक्तिलोपे ' परत: स्त्री पुंवदि 'ति प्रियत्रि इति जाते, ततः ङसि परत्वात्तिस्रादेशेऽनेन नोन्तः, प्रियतिसन् अस्, ‘रघुवर्णादि 'ति णत्वं प्रियतिसृणः पुंवद्भावात् प्रियतिस्रः प्रियतिसृणइति रूपद्वयमिति कौमुदीकारः । न च पूर्वमेव नागमे सति स्वाङ्गस्याव्यवधायकत्वात्तिस्रादेशसम्भवेन परत्वात्तिस्रादेश इति कथमुच्यत इति वाच्यम् ;