SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ चतुर्थपादः ] अवचूरिपरिष्कारसहितायाम् । प्रामण्या ग्रामणिना कुलेन, कोः कर्तृणोः कुलयोः। अन्यत इति किम् ? पीलने फलाय । टादाविति किम् ? शुचिनी कुले नपुंसक इत्येव !, कल्याण्यै स्त्रियै ॥ दध्यस्थिसक्थ्यक्ष्णोऽन्तस्यान् ।। भिसम्बध्यते । यथा पुंसि नोऽन्तहस्वौ न भवतः, तथात्रापि क्लीबे, प्रामणी टा, ' योऽनेकस्वरस्ये 'ति यत्वम् , ग्रामण्या । पुंवदभावे तु 'क्लीबे' हस्वनोन्तौ भवतो ग्रामणिना, एवमग्रे। कर्तृणोः, नोन्तः णत्वम् । अत्र कुलेन कुलयोरित्युपन्यासो विशेष्यसूचनाय, तदशाद्रामण्यादीनां नपुंसकत्वात्, क्रियाशब्दत्वात् । पीलुर्वृक्षः, पीलोः फलमिति वा पीलु 'प्राण्यौषधी' त्यण् , 'फले' इत्यणलोपोऽत्र विशेध्यबलादेव पीलुशब्दो नपुंसके न वर्तते, किन्वर्थविशेषबलादपि । यद्यपि पीलुने फलायेत्यादौ फलशब्दासमभिव्याहारे पीलुशब्दः पीलु. फलवृत्तिरिति विज्ञातुं न शक्यते, तथापि व्युत्पन्नस्य व्युत्पत्तिबलाद्विशेष्यविरहेऽपि भवत्येव । एवञ्च यत्प्रवृत्तिनिमित्तं पुंस्त्वस्यान्वयितावच्छेदकं तदेव यत्र नपुंसकस्याप्यन्वयितावच्छेदकं भवति स टादौ स्वरे वा पुंवद्भवति पीलुशब्दस्य वृक्षत्वव्याप्य जातिरूपं प्रवृत्ति. निमित्तं यत्पुंस्त्वस्याऽन्वयितावच्छेदकं न तन्नपुंसकत्वस्यान्वयितावच्छेदकम् । फलत्वव्याप्यजातिरूपप्रवृत्तिनिमित्तस्य नपुंसकत्वान्वयितावच्छेदकत्वात् , तच्च न पुंस्त्वस्यान्वयितावच्छेदकमिति न तत्रातिप्रसङ्गः। ग्रामण्या ग्रामणिना कुलेनेत्यादौ तु ग्रामनयनकर्तृत्वलक्षणप्रवृत्तिनिमित्तमेव पुंस्त्वस्य नपुंसकत्वस्य चाऽन्वयितावच्छेदकमिति । पुंवदित्यनुक्त्वा पुमानित्यत्र वतेरभावेऽपि परार्थे प्रयुज्यमानः शब्दो वतिमन्तरेणाऽपि वत्यर्थं गमयती 'ति न्यायाद्रवत्यर्थेस्वापि बोधः, अन्यथा पुंवदिति ब्रूयात् , नपुंसके परार्थे प्रयुज्यमानः पुंशब्दो नपुं. सकोऽपि सन् पुंस्त्वकार्याणि लभत इति भावः ।। दधि च अस्थि च सक्थि चाक्षि च तत्तस्य, अन्तस्य अन् । नपुंसकस्य, नामि.
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy