SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ चतुर्थपादः ] अवचूरिपरिष्कारसहितायाम् । १०७ ड्यामघुट्स्वरादौ च स्यादौ परे इन् लुक् स्यात् । सुपथी स्त्री कुले वा, पथः । सुमथी स्त्री कुले वा, मथः । अनुभुक्षी सेना कुले वा, ऋभुक्षः ॥ वोशनसो नश्चामन्ये सौ ॥ ८० ॥ आमन्त्र्यवृत्तेरुशनसो नलुकौ सौ परे वा स्याताम् । हे उशनन् !, हे उशन, हे उशनः ! । आमन्व्य इति. किम् ? उशना । उतोऽनडुचतुरो वः ॥ ८१ ॥ आमन्त्र्यवृत्त्योरनडुच्चतुरोरुतः सौ परे वः स्यात् । हे अनड्वन् ! हे प्रियचत्वः !। हे अतिचत्वः ! ॥ वाः शेषे ॥ ८२ ॥ ' आमन्त्र्यविहितात् सेरन्यो घुटशेषस्तस्मिन्परे अनडुच्चतुरो रुतो वाः स्यात् । अनड्वान् , अनड्वाहौ । प्रियचत्वाः, प्रियचत्वारौ। शेष इति किम् ? हे अनड्वन् ! । हे प्रियचत्वः ! ॥ सख्युरितोऽशावत् ।। ८३ ॥ सख्युरिदन्तस्य शिवर्जे शेषे बलवानि 'ति न्यायेन सेलुकि तस्य स्थानिवद्भावेन प्रकृतसूत्रेण वा नान्तादेशे हे उशनन् इति । अन्तस्य वा लुकि हे उशन ! उभयोरप्यभावे · सोरुः ' हे उशनः इति रूपत्रयम् । आमन्त्र्याभावे च ' ऋदुशनसित्यादि 'ना सेर्डा — डित्यन्त्यस्वरादेरि 'त्यस्लोपे उशना । उतः षष्ठी, अनड्वांश्च चत्वारश्च तस्य वः प्रथमा ॥ आमन्त्र्ये सौ इति सम्बध्येते । स्वरसहितो वकारादेशो बोध्यः । अनडुह् आमन्त्र्ये, ' अनडुहः सौ' नोन्तः, उतोऽनेन वः ।। वाः प्रथमा, शेपे ।। उतोऽनडुच्चतुर इत्यनुवर्तन्ते । अनडुङ् सि नोन्तः । अनेन उतः वाः। 'दीर्घड्याब् ' ' पदस्य ' इलोपः । प्रियाश्चत्वारो यस्य प्रियचत्वाः । सेल्क् , प्रियाश्चत्वारो ययोस्तौ प्रियचत्वारौ ॥ सख्युः षष्ठी, इतः षष्ठी, न शिः अशिः तस्मिन् ऐत् ॥ शेषे इति वर्तते शेषश्चात्राऽऽमन्त्र्यविहितसिभिन्नो घुट् ग्राह्यः। स च शेषघुट् शिरपि भवतीति तद्वर्जनायाऽशावित्युक्तम् । इत इति . सख्युर्विशेषणम् , तेन तदन्तविधिः । सखि औ, अत्रानेन 'षष्ठयान्त्यस्ये 'ति परिभाषयेवर्ण
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy