SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ चतुर्थपादः ] अवचूरिपरिष्कारसहितायाम् । कुण्डे । पयसी ॥ अतः स्यमोऽम् ॥५७॥ अदन्तस्य नपुंसकस्य स्यमोरम् स्यात् । कुण्डम् , हे कुण्ड ! || पञ्चतोऽन्यादेरनेकतरस्य दः ॥ ५८ ॥ पञ्चपरिमाणस्य नपुंसकस्यान्यादेः स्यमोर्दः स्यादेकतरवर्जम् । अन्यत् , अन्यतरतू , इतरत् , कतरत् , कतमत् । अनेकतरस्येति किम् ? एकतरम् ।। अनतो लुप् ॥ ५९॥ सकादविहितः औरीः न भवति ॥ अतः षष्ठी, सिश्च अम् च स्यम् तस्य, अम् ॥ नपुंसकस्येत्यनुवर्तते, तदन्तविधिश्च सम्बन्धे षष्ठी । तथा चाऽकारान्तनपुंसकाद्विहितयोः स्यमोरिति भावार्थः । ननु दधीत्यादौ स्यमोः ' अनतो लुबि' ति बाधकसूत्रेण लुपि दधीत्यादि सिद्धरतः स्यमोऽमित्यत्राऽतो ग्रहणं निरर्थकमिति चेन्न, ' अनत' इत्यत्र नञः पर्युदासप्रसज्यरूपतासन्देहनिवारणार्थत्वात् । अगृह. णेन च प्रसज्य एव नबिति निश्चीयते । हे कुण्ड ! अनेन सेरमि कृते, 'अदेतः म्यमोलुंक्' । अमोऽकारोच्चारणं जरसादेशार्थम् , तेनातिजरसं कुलं तिष्ठतीति सिद्धम् । स्थानिमध्ये अम्ग्रहणमुत्तरार्थम् , तेनाऽन्यत्पश्येत्यादौ ' पञ्चतोऽन्यादेरि 'ति अमो दकारो भवति ।। पञ्च इति सङ्ख्या मानमस्य पञ्चत् तस्य, अन्य आदिर्यस्यान्यादित्तस्य, न एकतरो यस्मिन् तस्य, दः प्रथमा ॥ नपुंसकस्य स्यमो. रित्यनुवर्तते, दकारेऽकार उच्चारणार्थः । द्वयोर्मध्ये प्रकृष्टमन्यदन्यतरत् । अन्यतरशब्दात् सेरनेन दः। एवं कतरत् , बहूनां मध्ये प्रकृष्टं किमिति कतमत् । द्वयोर्मध्ये प्रकृष्टमे कमेकतरम । न अदनत् तस्य, लुप् ॥ नपुंसकस्य स्यमोरित्यनुवर्तते । लुगमकृत्वा लुप्करणं स्यमोः स्थानिवद्भावेन यत्कार्य तस्य निषेधार्थम् , तेन यत् तत् , अत्र त्यदादित्वादत्वं न भवति । करोतीति कर्तृ नपुंसकस्य सेरनेन लुप्॥ 'नयुक्तं तत्सदृशे, ' नबा सहोक्तं पदं नबुक्तपदसदृशे विशेष्यभूते
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy