________________
९६
सिअहेमलघुवृत्ती [प्रथमाध्यायस्व अष्टौ ॥ इतिष्णः सङ्ख्याया लुप् ॥ ५४ ॥ डति-पनान्तानां सङ्ख्यानां जम्शसो प् स्यात् । कति, कति । षट्, षट् । पञ्च, पञ्च ॥ नपुंसकस्य शिः ॥ ५५ ॥ नपुंसकस्य जसशसोः शिः स्यात् । कुण्डानि, पयांसि ।। औरीः ।। ५६ ॥ नपुंसकस्य औरीः स्यात् । विति रूपं केचिदिच्छन्ति, तदप्यष्टेति तन्त्रेण सङ्ग्रहीतम् ।। इतिश्च ष् च न् तस्य डतिष्णः, सङ्ख्यायाः षष्ठी, लुप् ॥ जस्शसोरित्यनुवर्तते । का सङ्ख्या मानमेषां कति डत्यन्तत्वादनेन जसशसो प् , षष् , पञ्चन् ' नाम्नो' 'धुटस्तृतीय ' इति पस्य डः, अनेन जसशसोलृप् 'विरामे वा ' टः । तत्सम्बन्धिविज्ञानादिह न भवति प्रियकतयः इत्यादि ॥ ननु शतानि सहस्राणीत्यादौ शतशब्दाजसि, जसः शिकृते ' स्वराच्छावि 'ति नोन्ते शतन् इ इति जाते जसादेशस्य शेः स्थानिवद्भावेन लुप् स्यादिति चेन्न, सन्निपातपारेभापया शिनिमित्तनकारसम्पादितनान्तत्वस्य शिविघातेऽनिमित्तत्वात् । न च सन्निपातलक्षणन्यायस्यानित्यत्वान्नात्र तस्य प्रवृत्तिरिति वाच्यम् , इष्टस्थलेऽप्यप्रवृत्तौ न्यायस्याकिश्चित्करत्वापत्तेः ॥ स्त्रीश्च पुमांश्च स्त्रीपुंसौ, स्त्रियाः पुंसः । द्वन्द्वे ये 'ति समासान्तः, न स्त्रीपुंसाविति नपुंसकम् । नखादित्वान्नाऽदादेशाभावः, स्त्रीपुंसशब्दस्य पृषोदरादित्वात् पुंसकादेश इति नपुंसकः तस्य शिः ॥ जस्शसोरित्यनुवर्तते । कुण्डशब्दाजसोऽनेन शिः, स्वराच्छाविति ' नोन्तः, 'नि दीर्घः' । पयसू 'धुटां प्राक्' नोन्तः, 'न्स्महतो' दीर्घः, तत्सम्बन्धिविज्ञानादिह न स्यात् , प्रियाणि कुण्डानि येषान्ते प्रियकुण्डाः, ॥ औः प्रथमा, ईः प्रथमा ॥ नपुंसकस्येत्यनुवर्तते । औरीरित्यभेदनिर्देशः सर्वादेशार्थः, अन्यथा षष्ठ्या निर्दिश्यमाने सत्यौकारस्य अ ओ इत्येवं मन्ध्यक्षररूपतया, 'षष्टयान्त्यस्ये 'ति न्गायादोकारस्यैव ई आदेशः स्यात् । कुण्डे, औरीः गुणश्च । तत्सम्बन्धिविज्ञानाच्च नपुं