SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ चतुर्थपादः ] . अवचूरिपरिष्कारसहितायाम् । ९५ ॥ ५१ ॥ नियः परस्य डेराम् स्यात् । नियाम्, ग्रामण्याम् ॥ वाऽष्टन आः स्यादौ ॥ ५२ ॥ अष्टनः स्यादौ परे आ वा स्यात् । अष्टाभिः, अष्टभिः । प्रियाष्टाः, प्रियाष्टा ॥ अष्ट औजसशसोः ।। ५३ ॥ अष्टनः कृतात्वस्य जम्शसोरौः स्यात् । अष्टौ, पश्चमी आम ॥ ङौ इत्यस्य विभक्तिविपरिणामेनानुवृत्तिः । नी ङिः, अत्रानेनाम् , धातोरिवर्णोवर्णस्ये 'तीय , नीशब्दात् षष्ठीबहुवचने तु ' आमो नाम्चे 'ति नामादेशो न भवति, तत्र नित्यस्त्रीदूतोरधिकृतत्वात् । ग्रामण्यामित्यत्र साक्षान्नी नास्ति, किन्तु णी इति, अत आम् न प्राप्नोति, सत्यम् , स्यादिविधौ णत्वमसिद्धम् ॥ वा अष्टनः षष्ठी आः प्रथमा सिरादिर्यस्य तस्मिन् ॥ अयं स्यादिः स्वसम्बन्धिरन्यसम्बन्धिर्वा ग्राह्यः । स्वसम्बन्धिन उदाहरणमष्टाभिः, अष्टन भिसित्यत्रानेन 'षष्ट्यान्त्यस्ये 'ति परिभाषया नकारस्याकारः, ' समानानां तेन दीर्घः ' अष्टाभिः । आत्वाभावपक्षे ' नाम्नोनोऽह्र' इति सूत्रेण नलोपे अष्टभिः अन्य सम्बन्धिन उदाहरणं प्रियाष्टाः । प्रिया अष्टौ यस्य स प्रियाष्टाः, अनेनाऽऽत्वे · सोरुः ' आत्वाभावपक्षे, प्रियाऽप्रन् इत्यत्र च ‘नि दीर्घः ' ' दीर्घङया ' नलोपश्च । बहुव्रीहावष्ट शब्दः सर्वासु विभक्तिषु प्रचलतीति सूचनाय प्रथमैकवचनमुदाहृतम् । पाणिनीये तु भ्यामादिव्यञ्ज नविभक्तावेव प्रियाष्टनादिगौणशब्दस्य वैकल्पिकमात्वं दृश्यते, अन्यत्र तु प्रियाष्टेत्यादि राजवदूपम् ॥ अष्टः षष्ठी, औः प्रथमा जस् च शस् च जसशसौ तयोः । सूत्रेऽष्ट इति कृतात्वस्याप्टन शब्दस्य निर्देशः । तथा च यदा 'वाष्टनः आः स्यादावि' त्यात्वं भवति, तदेवात्वविशिष्टाष्टशब्दस्य सम्बन्धिनोर्जसूशसोरौः स्यान्नान्यदा, तेनात्वाभावपक्षे जस्ासोः ' इतिष्ण: ' इति लुप्यष्ट इति रूपं भवति, तत्सम्बन्धिविज्ञानाच्च प्रियाष्टाः तिष्ठन्ति प्रियाष्टः पश्य, इति न जसशसोरौत्वम् । अष्टवाचक्षते इति णिचि किप्यष्टा
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy