________________
सिद्ध लघुवृत्तौ
[ प्रथमाध्यायस्य
नामि परे दीघों वा स्यात् । नृणाम्, नृणाम् ॥ शसोडता सश् नः पुंसि ॥ ४९ ॥ शसोडता सह पूर्वसमानस्य दीर्घः स्यात् । तत्सन्नियोगे च पुंसि शसः सो नः । देवान्, मुनीन्, वातप्रमीन्, साधून्, हूहून्, पितॄन् । पुंसीति किम् ? शालाः ॥ सङ्ख्यासायवेरहस्यान् ङौ वा || ५० || सङ्ख्यावाचिम्यः सायविभ्याञ्च परस्याहृतस्य ङौ परेऽहन्वा स्यात् । द्व्यहनि यह्नि, यह्ने । सायाहनि, सायाह्नि, सायाह्ने । व्यहनि, व्यहि, व्यह्ने ॥ निय आम् ॥
"
९४
चानुवृत्तिः ॥ शसः षष्ठी, अता तृतीया सः षष्ठी, च नः प्रथमा पुंसि समानस्य दीर्घ इत्यनुवर्तेते । अत्राता सह समानस्य दीर्घं इत्युक्तावत् समानश्च स्थानी भवति, तत्र अत् अप्रधानभूतः स्थानी, समानश्च प्रधानभूतः, दीर्घश्च प्रधानभूतस्थान्यासन्न एव ग्राह्य इति सूचनाय पूर्वसमानस्येत्युक्तम । वर्णक्रमेणोदाहरणानि दर्शितानि । अत्र विधानद्वयम, शसोडता इत्येकम, शश्च नः पुंसीत्यपरम्, आद्यश्च प्रधानमपरश्वाप्रधानमप्रधानता चान्वाचयार्थेन चशब्देन सूच्यते । गौणत्वेन समुच्चयोऽन्वाचयः, अनेन चशब्देन निर्देशात 'नान्वाचीयमाननिवृत्तौ प्रधानस्ये 'ति न्याय: सूच्यते, गौणस्य निवृत्तौ मुख्यं न निवर्तत इत्यर्थः । तेन बुद्धीः धेनुरित्यादौ पुंस्त्वाभावेन नत्वाभावेऽपि दीर्घो भवति । वातं प्रमिमीते इति वातप्रमीः, स निःशृङ्गो मृगाकृतिर्जन्तुविशेषः, अयं शब्द उणादिनिष्पन्नो ग्राह्यः, बिन्त निष्पन्नस्य शि वातप्रम्य इति भवति ॥ सङ्ख्या च मायश्च विश्व तस्मात् अह्नस्य अहन् ङौ वा । द्वयोरोर्भव इत्यत्र ' भवे ' इत्यण् विषये 'सर्वांशे ' त्यादिनाद, अह्नादेशश्च ततो 'द्विगोरनपत्ये ' इत्यण् लोपस्तस्मिन्
.
1
ह्नि, अहनादेशश्च । ' ईङ वे 'त्यलोपः । पक्षे अवर्णस्य ए । सायमहः सायाह्नः तस्मिन् । अत एव सूत्रनिर्देशान्मलोपः, अकारान्तो वा सायशब्दः । शेषं पूर्ववत् । विगतमहो व्यस्तस्मिन् ॥ नियः