________________
चतुर्थपादः ] अवरिपरिष्कारसहितायाम् । । ९३ व्यसनाच्च परस्य से क् स्यात् । नदी, माला, राजा । दीति किम् ? निष्कौशाम्बिः, अतिखटः ॥ समानादमोऽतः ।। ४६ ॥ समानात्परस्यामोऽस्य लुक् स्यात् । देवम् , मालाम् , मुनिम् , नदीम् , साधुम् , वधूम् ॥ दी? नाम्यतिमृचतसृषः ॥ ४७ ॥ तिस चतसृ परान्तवर्जस्य समानस्य नामि परे दीर्घः स्यात् । वनानाम् , मुनीनाम् , साधूनाम् , पितॄणाम् । अतिसृचतसृष इति किम् ? तिसृणाम् , चतसृणाम् , षण्णाम् , चतुर्णाम् ॥ नुर्वा ॥ ४८ ॥ नुः समानस्य
यच्छब्दाद्धि स्त्रीत्वविवक्षायां सि विभक्तो ‘आढेर' इत्यत्वे · आदि' त्यादि सेर्दी(भूताद्विहितत्वाभावेन सिलोपो न स्यात् । न च व्य. ञ्जनान्ताद्विहितत्वात् सेर्लोपो भवतीति वाच्यम् , य इत्यादौ सिलोप. प्रसङ्गात् व्यञ्जनान्ताद्विहितत्वादतः परस्येत्युक्तम् । निर्गतः कौशाम्ब्या निष्कौशाम्बिः ‘गोश्चान्ते' ह्रस्वः । खटामतिक्रान्तो यः सः । अत्र उयाबन्तत्वेऽपि दीर्घड्यावन्तत्वाभावान सिलोपः। न चात्र समस्तस्य रूपाबन्तत्वं नास्तीति कथं सिलोपप्राप्तिरिति वाच्यम , समासान्तर्गतोत्तरपदस्य ड्याबन्तत्वेन सेस्ततः परत्वाल्लुक् प्राप्तः, विहितविशेषणत्वस्याविवक्षितत्वात्॥ समानात् अमः षष्ठी, अतः षष्ठी ।। लुगि त्यनुवर्तते । देव अम् , अत्रानेनामोऽकारलोपः, अन्यथा ' समानानामि 'ति दीर्घः स्यात् । अत्र स्यादेरेवामो ग्रहणम् , स्याद्यधिकारात् । तेनासुनवमित्यादौ नामोऽकारलोपः। दीर्घः नामि, तिसा च चतसा च घ च र च, न तिसूचतसृषु तस्य ।। विभक्तिविपरिणामेन समान. इत्युनुवर्तते । नामीत्यादेशभूतो नाम् गृह्मते स्याद्यधिकारात् । अष इति प्रतिषेधेन नकारेण व्यवहितेऽपि नामि दीर्घो ज्ञाप्यते पञ्चानाम् । न च मुनीनामित्यादौ ह्रस्वनिमित्तो नाम् , अनेन दीर्धे कृते ह्रस्वस्य नाशेऽपि निमित्ताभावे नैमित्तिकस्याप्यभाव' इति न्यायेन न नश्यति, तन्यायस्यानित्यत्वात् । नुः षष्ठी वा ॥ दीर्घः समानस्य नामीत्यस्य