________________
सिद्धहेमलघुवृत्ती [प्रथमाध्यायस्य लक्ष्मि !, हे श्वश्रु !, हे वधु !, हे अम्ब !, हे अक्क ! नित्यदिदिति किम् ? हे इहूः ! द्विस्वरेति किम् ? हे अम्बाडे !। आप इत्येव ? हे मातः ! ॥ अदेतः स्यमोलक् ॥४४॥ अदन्तादेदन्ताञ्च आमत्र्यवृत्तेः परस्य सेरमश्च लुक् स्यात् ! हे देव !, हे उपकुम्भ !, हे अतिहे ! ॥ दीर्घड्याव्यञ्जनात्सेः॥४५॥ दीर्घड्यावन्ताभ्यां अच एच्चादेत्तस्मात्, सिश्वाम् च स्यमौ तयोर्लुक् ॥ आमन्त्र्येति वर्तते । आमन्त्र्ये अमोऽसम्भवात् सेरादेशभूतोऽमत्र प्राह्यः। हे देव ! इत्यत्र सेलृक् । कुम्भस्य समीपमुपकुम्भम् । 'अमव्ययीभावस्यातो पञ्चम्या' इति सेरम् , अनेन लोपः । हिनोतीति हेः, हयमतिक्रान्तोऽसौ तस्य सम्बोधनमेदन्तस्योदाहरणमिदम् । स्यादेशत्वेनैवामोऽपि लुकि सिद्धौ पृथग्वचनमन्यस्यादेशस्य लुगभावार्थम् , तेन हे कतरदित्यादौ लुग्न भवति ।। अत्र 'पञ्चतोऽन्यादेरि'ति सेर्दादेशः ।। डी चाप च ड्यापो, दी! च तो ड्यापौ च, दीर्घल्यापौ च व्यञ्जनश्च तस्मात् , सेः षष्ठी॥ लुग वर्तते । सूत्रे सेरनुवृत्तिसम्भवेऽपि पुनः सिग्रहणमामन्त्र्यनिवृत्ति सूचयति । दीर्घति ज्याबोरेव विशेषणम् , न तु व्यञ्जनस्यासम्भवात् । आक्षिप्तस्य नाम्नोः विशेषणात्तदन्तविधिः । व्यञ्जनाचेत्यस्य व्यञ्जनान्ताश्चेत्यर्थः । राजन सि, · नि दीर्घः' अनेन सिलुक्, ' नाम्नो. नोऽनह्न ' इति नलुक् । न चात्र ‘पदस्ये 'ति से कि राजेति सिद्धौ व्यञ्जनग्रहणं व्यर्थमिति वाच्यम् , 'पदस्येति लोपस्यासत्त्वेन 'नाम्नो न' इति प्रथमं नलोपे सति, ततः सेलुगसम्भवात् । न च 'पदस्थति लोपोऽत्र नासन् , ' नाऽऽमन्त्र्ये' इति सूत्रेण लुग निषेधाज्ञापकादिति वाच्यम् , उखास्रदित्यादौ 'संयोगस्यादौ' स्कोलुंकि दत्वाभावप्रसङ्गात् । न च सौ परे लुकः पूर्व दत्वं प्राप्नोतीति वाच्यम् , परे लुकि — संसध्वंसि 'ति सूत्रस्यासिद्धत्वात्, परस्येति, न त्विदं विहित. विशेषणमिति भावः, अन्यथा या सा इत्यादौ सिलोपाभावप्रसङ्गः,