________________
चतुर्थपादः ] अवचूरिपरिष्कारसहितायाम् । मात ! । पुत्र इति किम् ? हे मातः ! हे गार्गीमातृके वस्से ! । अर्ह इति किम् ? अरे गार्गीमातृक ! ॥ हस्वस्य गुणः ॥४१॥ आमत्र्यार्थवृत्तेईस्वान्तस्य सिना सह गुणः स्यात् । हे पितः !, हे मुने ! ॥ एदापः ॥ ४२ ॥ आमन्त्र्यार्थवृत्तेराबन्तस्य सिना सहैकारः स्यात् । हे माले !, हे बहुराजे ! ॥ नित्यदिद्विस्वराम्बार्थस्य हस्वः ॥ ४३ ॥ नित्यं दिदैदासदासदामादेशा येभ्यस्तेषां द्विस्वराम्बार्थानान्चाबन्तानामामन्यवृत्तीनां सिना सह इस्वः स्यात् । हे स्त्रि !, हे
पवादः । हे गार्गीमात । गार्गीमाता यस्य तत्सम्बोधने । श्लाध्यया मात्रा तत्पुत्रव्यपदेशयोग्यतया पुत्रः प्रशस्यते । हे गार्गीमातृके वत्से ! इत्यत्र न मातृशब्दः पुत्रे, किन्तु वत्सायाम् । अरे गार्गीमातृक ! अत्र पुत्रपरत्वेऽपि न प्रशंसा गम्यते, किन्वरे इति शब्देन निन्दा गम्यते । इस्वस्य गुणः ॥ सिनाऽऽमन्ये इत्यनुवर्तते, ह्रस्वस्य नाम्नो विशेष. णत्वेन तदन्तविधिः । सिना सह गुणस्तु हस्वस्यैव, श्रुतत्वात्, न तु द्वस्वान्तस्यानुमितत्वात् ' श्रुतानुमितयोश्च श्रौतो विधिबलीयानि 'ति न्यायात् । हे पितः ! अत्र सिना गुणः स च सह ऋकारस्य गुणोऽ. रेदोत् अत्राऽऽसन्न इत्यर् । एत् , आश्वासावाप् च तस्य । सिनाऽऽमन्न्ये इत्यनुवर्तते । बहवो राजानो यस्याः सा तस्याः सम्बोध. नम् । आ आपः इत्याकारप्रश्लेषादिह न भवति, प्रिया खट्टा यस्य सः तस्य सम्बोधने हे ! प्रियखट !, अत्र नैकारान्तादेशो भवति । नित्यं दित् यस्मात् नित्यदित् द्वौ स्वरौ यस्य द्विस्वरः । अम्बार्थों यस्य, अम्बार्थश्च नित्यदिच्च द्विस्वरार्थश्च तस्य, हस्वः॥ सिनाऽऽमन्त्र्ये आप इत्यनुवर्तन्ते । आप इति द्विश्वराम्बार्थस्य विशेषणम् , स्तृणाति पुरुषस्य रत्नत्रयं स्वीः । लक्षीण दर्शनाङ्कनयोः, लक्ष्यते पुण्यकर्मानयेति लक्ष्मीः । हे अम्ब ! हे वधु ! पर्यन्तं नित्यदित उदाहरणम् । हे अम्ब ! हे अक! इति द्विस्वराम्बार्थस्याऽऽबन्तस्योदाहरणम् ॥